शैवम्
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
शैवम्, क्ली, शैवालः । इति शब्दचन्द्रिका ॥ (शिवमधिकृत्य कृतो ग्रन्थः । शिव + अण ।) शिवपुराणम् । यथा -- “अष्टादश पुराणानि पुराणज्ञाः प्रचक्षते । ब्राह्मं पाद्मं वैष्णवञ्च शैवं भागवतं तथा ॥” इति मलमासतत्त्वे विष्णुपुराणम् ॥ (शिवस्येदमिति । शिव + अण् ।) शिवसम्ब- न्धिनि, त्रि (यथा । कथासरित्सागरे । ४० । ८९ । “प्रापदायतनं शैवं नद्यास्तस्यास्तटस्थितम् ॥”) शैवः, पुं, (शिव + अण् ।) वसुकः । धुस्तूरः । इति राजनिर्घण्टः ॥ आचारविशेषः । यथा, -- “अष्टाङ्गयोगसंयुक्तो यजेद्देवीं विधानतः । यावद्ध्यानं समाधिश्च तावत् शैवः प्रचक्षते ॥” इत्याचारभेदतन्त्रम् ॥ * ॥ शिवोपासकः । तत्पर्य्यायः । और्द्ध्वश्रोतसिकः २ इति त्रिकाण्डशेषः । एतद्भेदा यथा -- “ततश्चकार भगवान् चातुर्व्वर्ण्यं हरार्च्चने । शास्त्राणि चैषां मुख्यानि नानोक्तिविदितानिच आद्यं शैवं परिख्यातमन्यत् पाशुपतं मुने ! । तृतीयं कालवदनं चतुर्थञ्च कपालिनम् ॥ शैव आसीत् स्वयं शक्तिर्व्व शिष्टस्य प्रियः सुतः । तस्य शिष्यो बभूवाथ गोपायन इति श्रुतः ॥ महापाशुपतस्त्वासीद्भारद्वाजस्तपोधनः । तस्य शिष्योऽप्यभूद्राजा ऋषभः सोमकेश्वरः ॥ कालास्यो भगवानासीदापस्तम्बस्तपोधनः । तस्य शिष्यो वको वश्यो नाम्ना क्राथेश्वरो मुने ॥ महाव्रती च धनदस्तस्य शिष्यश्च वीर्य्यवान् । कुल्लोदर इति ख्यातो जात्या शूद्रो महातपाः ॥ एवं स भगवान् ब्रह्मा पूजनाय शिवस्य च । कृत्वा तु चातुराश्रम्यं स्वमेव भवनं गतः ॥” इति वामने ६ अध्यायः ॥ * ॥ तस्य स्वरूपं यथा । आयान्तं शैवमालोक्याह । “श्रीमानसावेति जटालमौलि- र्व्याघ्रत्वगालम्बितमध्यभागः । विभूतिसंभूषितभास्वदङ्गो रुद्राक्षमालाकलितोर्द्ध्वदेहः ॥” इति विद्वन्मोदतरङ्गिण्यां २ तरङ्गः ॥
Purana index
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
(I)--one day of शिव equals १०० years of ब्रह्मा. M. २९०. २१.
(II)--one of the six दर्शनस्. वा. १०४. १६.
(III)--in the सीमन्तसीम of the personified Veda. वा. १०४. ८१.
