सामग्री पर जाएँ

शैवालम्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

शैवालम्, क्ली, (शी + बाहुलकात् वालञ् ।) जलजद्रव्यविशेषः । शेयाला इति भाषा । (यथा, महाभारते । ४ । ६० । १७ । “प्रावर्त्तयन्नदीं घोरां शोनितोदां तरङ्गिणीम् । केशशैवालसंवाधां युगान्ते कालनिर्म्मिताम् ॥”) तत्पर्य्यायः । जलनीली २ शैवलः ३ । इत्यमरः ॥ शेपालम् ४ शेवलम् ५ शीवलम् ६ शेपालः ७ जलनीलिका ८ । इति वाचस्पतिः ॥ जल- नीलः ९ । इति मुकुटादयः । इति भरतः ॥ सैवालम् १० शेबालम् ११ वारिचामरः १२ शैवलम् १३ सलिलकुन्तलम् १४ हटपर्णी १५ अम्बुतालम् १६ । इति शब्दरत्नावली ॥ अरकः १७ जलकेशः १८ कावारम् १९ । इति हारावली ॥ जलजम् २० । अस्य गुणाः । शीतलत्वम् । स्निग्धत्वम् । सन्तापव्रणनाशि- त्वञ्च । इति राजनिर्घण्टः ॥

"https://sa.wiktionary.org/w/index.php?title=शैवालम्&oldid=172091" इत्यस्माद् प्रतिप्राप्तम्