शोचिष्केशः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
शोचिष्केशः, पुं, (शोचींषि केशा इव यस्य । नियतं समासेऽनुत्तरपदस्थस्येति षत्वम् ।) अग्निः । चित्रकवृक्षः । इत्यमरः ॥ (क्वचित् वाच्यलिङ्गो ऽपि । तथा, ऋग्वेदे । १ । ४५ । ६ । “शोचिष्केशं पुरुप्रियाग्ने हव्याय वोह्लवे ।” “शोचिष्केशं दीप्तिरूपकेशोपेतम् ।” इति तद्भाष्ये सायणः ॥) शोच्यकः, त्रि, अवरः । क्षुद्रः । इति शब्दमाला ॥
