सामग्री पर जाएँ

शोणः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

शोणः, पुं, (शोण वर्णे + अच् ।) रक्तोत्पलतुल्य- वर्णः । तत्पर्य्यायः । कोकनदच्छविः २ । इत्य- मरः ॥ रक्तोत्पलनिभः ३ । इति शब्दरत्ना- वली ॥ रक्तोत्पलाभः ४ । इति जटाधरः ॥ (यथा, भागवते । १ । ११ । २ । “स उच्चकाशे धवलोदरोदरो- ऽप्युरुक्रमस्याधरशोणशोणिमा ॥”) नदविशेषः । तत्पर्य्यायः । हिरण्यवाहुः । इत्यमरः ॥ हिरण्यवाहः ३ । इति भरतः ॥ स तु अमरकण्टकदेशात् पाटलिपुत्त्रे गङ्गायां मिलितः । तज्जलगुणाः । रुचिदत्वम् । सन्ताप- शोषापहत्वम् । पथ्यत्वम् । वह्निकरत्वम् । बलक्षीणाङ्गवृद्धिप्रदत्वञ्च । इति राजनिर्घण्टः ॥ अग्निः । श्योनाकः । लोहिताश्वः । कोकनद- च्छाये, त्रि । इति मेदिनी ॥ समुद्रविशेषः । इति धरणिः ॥ रक्तेक्षुः । श्योनाकप्रभेदः । इति राजनिर्घण्टः ॥ (रक्तवर्णे, त्रि । यथा, कुमारे । १ । ७ । “न्यस्ताक्षरा धातुरसेन यत्र भूज्जत्वचः कुञ्जरबिन्दुशोणाः ॥”)

"https://sa.wiktionary.org/w/index.php?title=शोणः&oldid=172120" इत्यस्माद् प्रतिप्राप्तम्