सामग्री पर जाएँ

शोथः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

शोथः, पुं, (शवतीति । शु गतौ + बाहुलकात् थन् । इत्युणादिवृत्तौ उज्ज्वलः । २ । ४ ।) रोगविशेषः । तत्पर्य्यायः । शोफः २ श्वयथुः ३ । इत्यमरः ॥ शोथकः ४ । इति शब्दरत्नावली ॥ अथ शोथाधिकारः । तत्र शोथस्य विप्रकृष्टं निदानमाह । “शुद्ध्यामयाभक्तकृशाबलानां क्षाराम्लतीक्ष्णोष्णगुरूपसेवा । दध्याममृच्छाकविरोधिपिष्ट- गरोपसृष्टान्ननिषेवणञ्च ॥ अर्शांस्यचेष्टा वपुषो ह्यशुद्धि- र्मर्म्मोपघातो विषमा प्रसूतिः । मिथ्योपचारः प्रतिकर्म्मणाञ्च निजस्य हेतुः श्वयथोः प्रदिष्टा ॥” शुद्धिर्वमनविरेकादि । आमयाः पाण्डुरोगा- दयः । अभक्तं अभोजनम् । आमः अपक्वो भुक्तस्य रसः । पिष्टगरोपसृष्टान्नं पिष्टो यो गरः संयोगजं विषं तेन उपसृष्टमन्नम् । वपुषो ह्यशुद्धिः शोधनार्हस्य वपुषोऽशोधनम् । मर्मोप- घातः दोषकृत एव ज्ञेयः । बाह्यहेतुकृतस्तु मर्मोपघातः आगन्तुजशोथहेतुरेव । विषमा प्रसूतिः आमगर्भपतनादिना । प्रतिकर्म्मणां वमनादीनां पञ्चकर्म्मणाम् । मिथ्योपचारः असम्यक्करणम् । श्वयथोः शोथस्य । निजस्य आत्मीयस्य । सन्निकृष्टस्य हेतोर्वातादेः । हेतुः रूक्षोष्णमधुरादि ॥ * ॥ सन्निकृष्टनिदानमाह । “दोषैः पुथक् द्वयैः सर्व्वैरभिघाताद्विषादपि । सर्व्वो हेतुविशेषैस्तु रूपभेदो नवात्मकः ॥” * ॥ संप्राप्तिपूर्व्वकं सामान्यं लक्षणमाह । “रक्तपित्तकफान् वायुर्दुष्टो दुष्टान् वहिःशिराः नीत्वा रुद्धगतिस्तैर्हि कुर्य्यात् त्वङ्मांससंश्रयम् उत्सेधं संहतं शोथं तमाहुर्निचयादतः ॥ सगौरवं स्यादनवस्थितत्वं सोत्सेधमुष्माथ शिराततत्वम् । सलोमहर्षञ्च विवर्णता च सामान्यलिङ्गं श्वयथोः प्रदिष्टम् ॥” उत्सेधः उन्नतत्वं किं विशिष्टमुत्सेधं अतः पूर्व्वोक्तान्निचयात् रक्तपित्तकफवातानां समु- दायात् । संहतं घनम् । तमुत्सेधं शोथमाहु- रित्यन्वयः ॥ * ॥ तस्य शोथस्य किं स्यादित्या- शुष्कमूलकतैलम् । इति शोथाधिकारः । इति भावप्रकाशः ॥

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

शोथः [śōthḥ], [Uṇ.2.4] Swelling, intumescence. -Comp. -घ्न, -जित् a. removing swellings, discutient. -घ्नः, -घ्नी, -जित् Bœrhavia Procumbens (Mar. तांबडा पुनर्नवा).-जिह्मः hog-weed. -रोगः dropsy. -हृत् a. discutient. (-m.) the marking-nut plant.

"https://sa.wiktionary.org/w/index.php?title=शोथः&oldid=346685" इत्यस्माद् प्रतिप्राप्तम्