शोधनः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
शोधनः, पुं, (शोधयतीति । शुध + णिच् + ल्युः ।) निम्बूकः । इति राजनिर्घण्टः ॥
शोधनः, त्रि, (शोधयतीति । शुध + णिच् + ल्युः ।) शुद्धिकारकः । यथा, -- “महासान्तपनः शुद्ध्यै तप्तकृच्छ्रस्तु पावनः । जलोपवासकृच्छ्रस्तु ब्रह्मकूर्च्चस्तु शोधनः ॥” इति प्रायश्चित्ततत्त्वधृतविश्वामित्रवचनम् ॥ यथा च । “तैलसैन्धवयष्ट्याह्वनिम्बपत्रनिशायुगैः । त्रिवृद्घनयुतैः पिष्टैः प्रलेपो ब्रणशोधनः ॥ इति भावप्रकाशः ॥
