सामग्री पर जाएँ

शोधनम्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

शोधनम्, क्ली, (शोधयतीति । शुध + णिच् + ल्युः ) कङ्कुष्ठम् । इति राजनिर्घण्टः ॥ (शुध + भावे ल्युट् ।) शौचम् । इति शुधधात्वर्थदर्शनात् ॥ (प्रायश्चित्तम् । यथा, मनुः । ११ । १६१ । “अभोज्यमन्नं नात्तव्यमात्मनः शुद्धिमिच्छता । अज्ञानभुक्तन्तूत्तार्य्यं शोध्यं वाप्याशु शोधनैः ॥”) विष्ठा । इति शब्दचन्द्रिका ॥ कासीसम् । इति राजनिर्घण्टः ॥ विहिताविहितमासादिविचा- रणम् । यथा, -- “सूर्य्यग्रहणकालेन समानो नास्ति कश्चन । तत्र यद्यत् कृतं सर्व्वमनन्तफलदं भवेत् । न मासतिथिवारादिशोधनं सूर्य्यपर्व्वणि ॥” इति मलमासतत्त्वम् ॥ * ॥ धातुनिर्द्दोषीकरणम् । यथा, -- “पत्तलीकृतपत्राणि हेम्नो वह्रौ प्रतापयेत् । निषिञ्चेत्तप्ततप्तानि तैलचक्रे च काञ्जिके ॥ गोमूत्रे च कुलत्थानां कषाये तु त्रिधा त्रिधा । एवं हेम्नः परेषाञ्च धातूनां शोधनं भवेत् ॥” * ॥ व्रणादिपरिष्करणम् । यथा, -- “व्रणस्य त्वविशुद्धस्य क्वाथः शुद्धिकरः परः । पटोलनिम्बपत्रस्य सर्व्वत्रैव प्रयुज्यते ॥ वातिके दशमूलानां क्षीरिणां पैत्तिके व्रणे । आरग्वधादेः कफजे कषायः शोधनं हितम् ॥” अपि च । “अष्टमेनांशशेषेण चतुर्थेनार्द्धकेन वा । अथवा क्वाथनेनैव सिद्धमुष्णोदकं वदेत् । श्लेस्मामवातमेदोघ्नं वस्तिशोधनदीपनम् ॥” इति च भावप्रकाशः ॥ * ॥ लिखितपत्रादेः प्रमाणीकरणम् । यथा । लेख्य- शोधनमाह कात्यायनः । “स्वहस्तलेख्यसन्देहे जीवतो वा मृतस्य च । तत् स्वहस्तकृतैरन्यैः पत्रैस्तल्लेख्यनिर्णयः ॥” * विरुद्धलिखितस्य शुद्धीकरणम् । थथा । तच्छो- धनमाह बृहस्पतिः । “न्यूनाधिकं पूर्व्वपक्षं तावद्वादी विशोधयेत् । न दद्यादुत्तरं यावत् प्रत्यर्थी सभ्यसन्निधौ ॥” कात्यायनः । “शोधयेत् पूर्व्वपक्षन्तु यावन्नोत्तरदर्शनम् । उत्तरेणावरुद्धस्य निवृत्तं शोधनं भवेत् ॥” इति व्यवहारतत्त्वम् ॥ * ॥ अङ्खस्य हरणम् । यथा, -- “भाज्याद्धरः शुध्यति यद्गुणः स्या- दन्त्यात् फलं तत् खलु भागहारे । समेन केनाप्यपवर्त्त्य हार- भाज्यौ भजेद्वा सति सम्भवे तु ॥ इति लीलावती ॥ अन्यत् शुद्धिशब्दे द्रष्टव्यम् ॥

"https://sa.wiktionary.org/w/index.php?title=शोधनम्&oldid=172160" इत्यस्माद् प्रतिप्राप्तम्