सामग्री पर जाएँ

शोभाञ्जन

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

शोभाञ्जनः, पुं, (शोभं रुचिरं अञ्जनं यस्मात् ।) वृक्षविशेवः । शजिना इति भाषा । तत्पर्य्यायः । शिग्रुः २ तीक्ष्णगन्धकः ३ अक्षीवः ४ मोचकः ५ । इत्यमरः ॥ तीक्ष्णगन्धः ६ सुतीक्ष्णः ७ घन- पल्लवः ८ श्वेतमरिचः ९ । इति जटाधरः ॥ तीक्ष्णः १० गन्धः ११ गन्धकः १२ काक्षीवकः १३ आक्षीवः १४ शुभाञ्जनः १५ स्त्रीचित्तहारी १६ द्रविणनाशनः १७ । इति शब्दरत्नावली ॥ कृष्णगन्धा १८ मूलकपर्णी १९ । इति रत्नमाला ॥ नीलशिग्रुः २० जनप्रियः २१ मुखमोदः २२ कृष्णशिग्रुः २३ चक्षुष्यः २४ रुचिराञ्जनः २५ । अस्य गुणाः । तीक्ष्णत्वम् । कटुत्वम् । स्वादु- त्वम् । उष्णत्वम् । पिच्छिलत्वम् । जन्तुवातार्त्ति- शूलनाशित्वम् । चक्षुर्हितत्वम् । रोचनत्वञ्च । इति राजनिर्घण्टः ॥ अपि च । “शोभाञ्जनः कटुस्तिक्तः शोथविद्रधिगुल्मनुत् ।” इति राजवल्लभः ॥ अन्यच्च । अथ शोभाञ्जनः श्यामः श्वेतः रक्तश्च । “शोभाञ्जनशिग्रुतीक्ष्णगन्धकाक्षीवमोचकाः । तद्बीजं श्वेतमरिचं मधुशिग्रः सलोहितः ॥ शिग्रुः कटुः कटुः पाके तीक्ष्णोष्णो मधुरो लघुः । दीपनो रोचनो रूक्षः क्षवस्तिक्तो विदाहकृत् ॥ संग्राह्यशुक्रलो हृद्यः पित्तरक्तप्रकोपणः । चक्षुष्यः कफवातघ्नो विद्रधिश्वयथुकृमीन् ॥ मेदोपचीविषप्लीहगुल्मगण्डव्रणान् हरेत् । श्वेतः प्रोक्तगुणो ज्ञेयो विशेषाद्दाहकृद्भवेत् ॥ प्लीहानं विद्रधिं हन्ति व्रनघ्नः पित्तरक्तकृत् । मधुशिग्रुः प्रोक्तगुणो विशेषाद्दीपनः सरः । शिग्रुवल्कलपत्राणां स्वरसः परमार्त्तिहृत् ॥ * ॥ क्षक्षुष्यं शिग्रुजं बीञं तीक्ष्णोष्णं विषनाशनम् । सवृष्यं कफवातघ्नं तन्नस्येन शिरोऽर्त्तिनुत् ॥ शिग्रु शाकं हिमं स्वादु चक्षुष्यं वातपित्तहृत् । बृंहणं शुक्रकृत् स्निग्धं रुच्यं मदकृमिप्रणुत् ॥” अस्य पुष्पगुणाः । “शिग्रोः पुष्पन्तु कटुकं तीक्ष्णोष्णं स्नायुशोथनुत् । कृमिहृत् कफवातघ्नं विद्रधिप्लीहगुल्मजित् ॥” अस्य फलगुणाः । “शोभाञ्जनफलं स्वादु कषायं कफपित्तनुत् । शूलकुष्ठक्षयश्वासगुल्महृत् दीपनं परम् ॥” इति भावप्रकाशः ॥ अथ रक्तशोभानपर्य्यायः । “सुरङ्गी स्वादुगन्धा च मधुलग्नः शुभाञ्जनः ॥” इति रत्नमाला ॥ अन्यच्च । “रक्तशोभाञ्जने तुल्यौ मधुशिग्रु मधुद्रवौ ।” इति शब्दरत्नावली ॥ अस्य पुष्पगुणाः । “मधुशिग्रोस्त्वक्षिहितं रक्तपित्तप्रसादनम् ॥” इति भावप्रकाशः ॥ अन्यत् रक्तशिग्रु शब्दे द्रष्टव्यम् ॥

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

शोभाञ्जन पुं।

शिग्रुः

समानार्थक:शोभाञ्जन,शिग्रु,तीक्ष्णगन्धक,आक्षीव,मोचक

2।4।31।1।1

शोभाञ्जने शिग्रुतीक्ष्णगन्धकाक्षीवमोचकाः। रक्तोऽसौ मधुशिग्रुः स्यादरिष्टः फेनिलः समौ॥

अवयव : शोभाञ्जनबीजम्

 : रक्तशिग्रुः

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, वृक्षः

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

शोभाञ्जन¦ पु॰ शोभायै अज्यते अन्ज--ल्युट्। (शजना)वृक्षे अमरः
“तद्वीजं श्वेतमरिचं मधुशिग्रुः स लोहितः। शिग्रुः कटुः कटुः पाके तीक्ष्णोष्णो मधुरो लघुः। दीपनोरोश्चनो रूक्षः क्षवस्तिक्तो विदाहकृत्। संग्राह्यशुक्रलोहृत्यः पित्तरक्तपकोपणः। चक्षुष्यः कफवातघ्नो विद्रधिश्वपयक्रमीन्। मेदोऽपचीविषप्लीहमुल्मगण्डव्रणान्हरेत्। श्वेतः प्रोक्तगुणो ज्ञेयो विशेषात् दाहकृत् भ-वेत्। प्लीहानं विद्रधिं हन्ति ग्रणघ्नः पित्तरक्तकृत्। र{??}शिग्रुः प्रोक्तगुणो विशेषा{??}बनः सरः। शिग्रुवल्-कलपत्त्राणां स्वरसः परमार्त्तिहृत्। चक्षुष्यं शिग्रुजंवीजं तीक्ष्णोष्णं विषनाशनम्। सुवृष्यं कफवातघ्नंतन्नस्यं तु शिरोर्त्तिनुत्। शिग्रुशाकं हिमं स्वादु चक्षुष्यंवातपित्तहृत्। वृंहणं श्रुक्रकृत् स्निन्धं रुच्यं गदक्रमि-प्रणुत्। शिग्रोः पुष्पन्तु कटुकं स्निग्धोष्णं स्नायुशोथनुत्। छमिहृत् कफवातघ्नं विद्रधिप्लीहगुल्मजित्। शोमा-ञ्जनफलं स्वादु कषायं कफपिक्षनुत्। शूलकुष्ठक्षयश्वासगुल्महृत् दीपनं परम्” भावप्र॰। अधिकं शिग्रुशब्देदृश्यम्।

शब्दसागरः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

शोभाञ्जन¦ m. (-नः) A tree, commonly Sajina or Sahajna4, (Hyperanthera morunga;) the legumes, blossoms, and leaves are esculent, and the root of the young tree is used as a substitute for horse-radish: in medicine the root is used as a rubefacient externally, as a stimulant internally, and the expressed oil of the seeds is employed to relieve arthritic pains, &c. E. शोभा beauty, अञ्ज् to pervade or anoint, and ल्युट् or युच् aff.; also शौभाञ्जन and सोभाञ्जन, &c.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

शोभाञ्जन/ शोभा-- ( शोभा-ञ्ज्) m. Moringa Pterygosperma (its leaves , flowers and root are edible and are used medicinally = शिग्रुSee. ) MBh. Sus3r. Bhpr.

"https://sa.wiktionary.org/w/index.php?title=शोभाञ्जन&oldid=347031" इत्यस्माद् प्रतिप्राप्तम्