शौकरव
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
शौकरवम्, क्ली, (शूकरस्येदमिति । शूकर + अण् ।) तीर्थविशेषः । यथा, -- वराह उवाच । “शृणु मे परमं गुह्यं यत्त्वया परिपृच्छितम् । मम क्षेत्रं परञ्चैव शुद्धं भागवतप्रियम् ॥ परं कोकामुखं स्थानं तथा कुब्जाम्रकं परम् । परं शौकरवं स्थानं सर्वसंसादमोक्षणम् ॥ यत्र संस्था च मे देदि ह्युद्धृतासि रसातलात् । यत्र भागीरथी गङ्गा मम शौकरवे स्थिता ॥ धरण्युवाच । केषु लोकेषु यान्तीश शौकरे ये मृताः प्रभो ! । किं वा पुण्यं भवेत्तत्र स्नातस्य पिबतस्तथा ॥ कति तीर्था विशालाक्ष । क्षेत्रे शौकरवे तव । धर्म्मसंस्थापनार्थाय तद्विष्णो ! वक्तुमर्हसि ॥ वराह उवाच । शृणु तत्त्वे न मे देवि ! यत्त्वं मां परिपृच्छसि । कां गतिं ते प्रपद्यन्ते नरा शौकरवे मृताः ॥ तेषां स्नानस्य वै पुण्यं गतस्यैव मृतस्य वा । तत्र यानि च तीर्थानि मम संस्थानसंस्थिताः ॥ शृणु पुण्यं महाभागे मम क्षेत्रेषु सुन्दरि । प्राप्नु वन्ति महाभागे गत्वा शौकरवं प्रति ॥ दश पूर्व्वापरांश्चापि अपरान् सप्त पञ्च च । स्वर्गं गच्छन्ति ते तत्र ये मृतास्तेषु जन्तवः ॥ गमनादेव सुश्रोणि ! मुखस्य मम दर्शनात् । सप्तजन्मान्तरे भद्रे जायते विपुले कुले ॥ धनधान्यसमृद्धेषु रूपवान् गुणवान् शुचिः । मद्भक्तश्चैव जायेते मम कर्म्मपरायणः ॥ एवं वै मानुषो भूत्वा अपराधविवर्ज्जितः । गमनं तस्य क्षेत्रस्य मरणं तत्र कारणम् ॥ ये मृतास्तत्र सुश्रोणि क्षेत्रे शौकरवे मम । शङ्खचक्रगदापद्मचतुर्हस्ताश्चतुर्भुजाः । त्यक्त्वा कलेवरं तूर्णं मम लोकाय गच्छति ॥” इति वाराहे शौकरतीर्थमाहात्म्ये आदित्यवर- प्रदानगृध्रजम्बुकोपाख्याननामाध्यायः ॥
