शौवस्तिकम्
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
शौवस्तिकम्, त्रि, (श्वो भवम् । श्वस् + “श्वसस्तुट् च ।” ४ । ३ । १५ । इति ठञ तुडागमश्च ।) भाविदिनस्थायिवस्तु । यथा, -- आत्मम्भरिस्त्वं पिशितैर्नराणां फलेग्रहीन् हंसि वनस्पतीनाम् । शौवस्तिकत्वं विभवा न येषां व्रजन्ति तेषां दयसे न कस्मात् ॥” इति भट्टौ २ सर्गः ॥ “येषां विभवाः सम्पदः शौवस्तिकत्वं भाविदिन- स्थितत्वं न व्रजन्ति तेषां कस्मान्न दयसे । श्वो- भवः शौवस्तिकः श्वसो भवार्थे कण्विधानात् कणि मनीषादित्वात् त्यागमः द्वारस्वरेतिउम् णित्त्वे व्रिरिति व्रिः त्वतौ भावे इति त्वम् ।” इति तट्टीकां ॥
