शौवापदम्
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
शौवापदम्, त्रि, (श्वापदस्येदमिति । श्वापद + अण् । “पादान्तस्यान्यतरस्याम् ।” ७ । ३ । ९ । इति पक्षे ऐच् ।) श्वापदसम्बन्धि । श्वापदशब्दात् ष्णप्रत्ययेन निष्पन्नम् । इति मुग्धबोधव्याकर- णम् ॥ (यथा, अनर्घराघवे । १ । २५ । “कच्चित् कान्तारभाजां भवति परिभवः कोऽपि शौवापदो वा प्रत्यूहेन क्रतूनां न खलु मखभुजो भुञ्जते वा हवींषि ॥”)
