श्च्युत
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
श्च्युत इर् क्षरणे । इति कविकल्पद्रुमः ॥ (भ्वा०-पर०-अक०-सेट् ।) द्वौ तालव्य- वर्गाद्ययुक्ततालव्यादी । शेषोऽन्तःस्थादियुक्तश्च । नकारजावनुस्वारपञ्चमावित्यादिनियमेऽप्यनयो- स्तालव्यादित्वं तद्वचनस्य व्यभिचारसूचनार्थं तेन चुलुम्प लोपे इत्यादीनामोष्ठ्यवर्गशेषोप- धत्वं सङ्गच्छते । तेन क्विपि संयोगान्तलोपे चुलुम् इत्यादि सिद्धम् । किन्तु द्वौ दन्त्यादी इति धातुप्रदीपक्रमदीश्वरौ । तेन घृतं श्चोतति इति घृतश्चुत् तमाचष्टे इति ञौ ञीमंश्चेति डित्वाट्टिलोपे घृतश्चयति पुनः क्विपि ञेर्लोपे घृतस्क इति स्थिते संयोगादेः सस्य लोपे घृतक् इति केचित् ॥ इर, अश्चुतत् अश्चोतीत् । अश्च्युतत् अश्च्योतीत् । क्षर इति आसेचनं क्षरणञ्च । रक्तमाश्च्योतति क्षुर इति । इदं कवचमश्च्योतीदिति । निश्च्योतन्ते सुतनुकवरी बिन्दवो यावदेते । इति मालत्यां गणकृतानि- त्यत्वम् । इति दुर्गादासः ॥
वाचस्पत्यम्
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
श्च्युत¦ क्षरणे भ्वा॰ पर॰ अक॰ आसेचने सक॰ सेट्। श्च्योततिइरित् अश्च्युतत् अश्च्योतीत्।
