श्मशानकाली
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
श्मशानकाली, स्त्री, (श्मशानस्य काली ।) कालिकाविशेषः । अथ श्मशानकाली । तदुक्तं कालीतन्त्रे । “वाणीं मोयां ततो लक्ष्मीं कामबीजमतः परम् कालिके संपुटत्वेन चतुष्कं बीजमालिखेत् ॥ एकादशार्णा देवेशि चतुवर्गप्रदायिनी ॥” * ॥ अस्या यन्त्रम् । “पद्ममष्टदलं वृत्तं तद्बाह्ये धरणीतलम् । चतुर्द्वारसमायुक्त मध्ये मूलं समालिखेत् ॥ दलेष्वष्टसु विलेखेत् कवर्गाद्यष्टवर्गकम् । धरण्यां विलिस्वेदाद्यं चतुष्कञ्च चतुष्कके । पूर्व्वादि उत्तरान्तञ्च मध्ये देवीं प्रपूजयेत् ॥” * ॥ अस्याः पूजाक्रमः । प्रातः कृत्यादिप्राणायामान्तं कर्म्म कृत्वा ऋष्यादिन्यासं कुर्य्यात् यथा । शिरसि भृगुऋषये नमः । हृदि श्मशानकाकि- कायै देवतायै नमः । गुह्ये वाग्वीजाय नमः । पादयोर्मायाशक्तये नमः । सर्व्वाङ्गे कामबीज- कीलकाय नमः । ततः कराङ्गन्यासौ । ऐ~ अङ्ग- ष्ठाभ्यां नमः । ह्री~ तर्ज्जनीभ्यां स्वाहा । श्री~ मध्यमाभ्यां वषट । क्ली~ आनामिकाभ्यां हु~ । कालिके कनिष्ठाभ्यां वौषट् । क्लीमादिवाग्- भवान्तं करतलपृष्ठाभ्यां फट् । एवं हृदया- दिषु ॥ * ॥ ततो ध्यानम् । “अञ्जनाद्रिनिभां देवीं श्मशानालयवासिनीम् रक्तनेत्रां मुक्तकेशीं शुष्कमांसातिभैरवाम् ॥ पिङ्गाक्षीं वामहस्तेन मद्यपूर्णं समांसकम् । सद्यःकृत्तशिरो दक्षहस्तेन दधतीं शिवाम् । स्मितवक्त्रां सदा चाममांसचर्व्वणतत्पराम् । नानालङ्कारभूषाङ्गीं नग्नां मत्तां सदासवैः ॥ एवं ध्यात्वा जपेद्देवीं श्मशाने तु विशेषतः । गृहे वापि गृहस्थोऽपि मत्स्यमांसैः सुभोजनैः । नग्नो भूत्वा महापूजां कुर्य्याद्रात्रौ विशेषतः ॥” * ॥ पूजनन्तु ध्यात्वा मानसैः संपूज्यार्घ्यस्थापनं कुर्य्यात् । पुनर्ध्यात्वा यथोपचारैः संपूज्य पत्रेषु ब्राह्यादिकं पूजयेत् । तद्वहिरसिताङ्गादिकं पूजयेत् । अस्याः पुरश्चरणं एकादशलक्षजपः । तथा च । “वर्णलक्षं जपेन्मन्त्रं तद्दशांसेन होमयेत् ।” मन्त्रान्तरम् । तत्रैव । “कामबीजं समालिख्य कालिकायै समालिखेत् नमोऽन्तेन च देवेशि सप्तार्णो मनुरुत्तमः । सर्व्वाङ्गे कालिका देवी अन्यत् सर्व्वन्तु पूर्ववत् ॥” इति तन्त्रसारः ॥
वाचस्पत्यम्
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
श्मशानकाली¦ स्त्री श्मशानस्था काली। कालिकाभेदे।
Monier-Williams
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
श्मशानकाली/ श्मशान--काली f. id. ib.
