सामग्री पर जाएँ

श्मशानम्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

श्मशानम्, क्ली, (श्मनां शवानां शानं शयनं यत्र । यद्वा, शवानां शयनमिति । “पृषोदरादीनि यथोपदिष्टानि ।” ६ । ३ । १०९ । इति शव- शब्दस्य श्मादेशः शयनशब्दस्यापि शानशब्द आदेशः ।) शवदाहस्थानम् । तत्पपर्य्यायः । पितृवनम् २ । इत्यमरः ॥ शतानकम् ३ रुद्रा एवं चिन्तात्मनस्तत्र मया रुद्रस्य भाषितम् । कपालमालां संगृह्य समलं गच्छ शङ्कर ॥ ममैवं वचनं श्रुत्वा भगवान् परमेश्वरः । उवाच मां पुनर्व्यक्तं मां बोधय जगत्पते ॥ कीदृशः समलो विष्णो यत्र गच्छामहे वयम् ॥ ततस्तस्य वचः श्रुत्वा शङ्करस्य यशस्विनि । तत्पापशोधनार्थाय मयावासं प्रभाषितम् ॥ श्मशानं समलो रुद्र पूतिको व्रणगन्धिकः । स्वयं तिष्ठति वै तत्र मनुजा विगतस्पृहाः ॥ तत्र गृह्य कपालानि रम तत्रैव शङ्कर । तत्र वर्षसहस्राणि दिव्यान्येव दृढव्रतः ॥ ततो भक्षय मांसानि पापक्षयचिकीर्षुकः । हिंस्यमानानि भोज्यानि ये च भोज्यास्तव प्रियाः एवं सर्व्वैर्गणैः सार्द्धं रम तत्र सुनिश्चितः । पूर्णे वर्षसहस्रे तु स्थित्वा त्वं समले पुनः ॥ एष्यसि स्वाश्रमं पुण्यं गौतमस्य महामुनेः । तत्र ज्ञास्यसि चात्मानं आश्रमे विधिसंस्थिते ॥ प्रसादात् गोतमस्याथ भविता गतकिल्विषः । एवं तस्य वरं दत्त्वा तत्रै वान्तरधीयत ॥ रुद्रोऽपि भ्रमते तत्र श्मशाने पापसंवृते । एवं न रोचते भूमे श्मशानं मे कदाचन ॥ यत्र रुद्रकृतं पापं स्थितं किल भयावहम् । एतत्ते कथितं भद्रे श्मशानं मे जुगुप्सितम् ॥ विष्ट्वापि कृतसंस्कारो मम कर्म्मपरायणः । प्रायश्चित्तं प्रवक्ष्यामि येन शुध्यति किल्विषात् कृत्वा चतुर्थभक्षन्तु दिनानि दश पञ्च च । आकाशशयनं कुर्य्यात् एकभक्तः कुशास्तरे ॥ प्रभाते पञ्चगव्यन्तु पातव्यं कर्म्मशोधनम् । प्रमुक्तः सर्व्वपापेभ्यो मम लोकाय गच्छति ॥” इति वाराहे श्मशानप्रवेशापराधप्रायश्रित्त- नामाध्यायः ॥

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

श्मशानम् [śmaśānam], [श्मानः शवाः शेरते$त्र शी-आनच् डिच्च Tv.]

A cemetery, a burial or burning ground; राजद्वारे श्मशाने च यस्तिष्ठति स बान्धवः Subhāṣ.

An oblation to deceased ancestors. -Comp. -अग्निः the fire of a burning ground. -आलयः a cemetery. -गोचर a. frequenting burning grounds; श्मशानगोचरं सूते बाह्यानामपि गर्हितम् Ms. 1.39. -निवासिन्, -वर्तिन्, -वासिन् m. a ghost. -भाज्, -वासिन् m. epithets of Śiva. -वाटः an enclosure of the cemetery; Kau. A.2.4; Māl.5. -वेश्मन् m.

an epithet of Śiva.

a spirit, ghost. -वैराग्यम् temporary despondency, momentary renunciation of the world as at the sight of a cemetery. -शूलः, -लम् an impaling stake in a cemetery; श्मशानशूलस्य न यूपसत्क्रया Ku.5.73.-साधनम् performance of magical rites in a cemetery to acquire control over ghosts.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

--the burning ground; the name of Avi- mukta; those who regard Benares as such will be deluding themselves; those who die there attain release. M. १८४. 5, १९-21, ६३.

"https://sa.wiktionary.org/w/index.php?title=श्मशानम्&oldid=439033" इत्यस्माद् प्रतिप्राप्तम्