श्यामः
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
श्यामः, त्रि, (श्यायते मनो यस्मात् । श्यै + मक् ।) कृष्णगुणविशिष्टः । (यथा, मनुः । ७ । २५ । “यत्र श्यामो लोहिताक्षो दण्डश्चरति पापहा । प्रजास्तत्र न मुह्यन्ति नेता चेत् साधु पश्यति ॥”) हरिद्गुणविशिष्टः । इत्यमरः ॥
श्यामः, पुं, (श्यै + मक् ।) प्रयागस्य वटः । (यथा रघुः । १३ । ५३ । “त्वया पुरस्तादुपयाचितो यः सोऽयं वटः श्याम इति प्रतीतः । राशिर्मणीनामिव गारुडानां सपद्मरागः फलितो विभाति ॥”) मेघः । वृद्धदारकः । कोकिलः । कृष्णवर्णः । हरिद्वर्णः । इति मेदिनी ॥ धुस्तूरः । पीलु- वृक्षः । श्यामाकः । इति राजनिर्घण्टः ॥ दम- नकवृक्षः । गन्धतृणम् । इति विश्वः ॥ * ॥ श्यामवस्तूनि यथा, -- कृष्णानि केशवः सीरिचीरं चन्द्राङ्कराहवः । विन्ध्याञ्जनाद्रिवृक्षाहिवनभैरवराक्षसाः ॥ शिवकण्ठघनद्वैपायनरामधनञ्जयाः । शनिर्द्रुपदजा काली कलिकोलयमासुराः ॥ केशकज्ज्वलकस्तूरीराजपट्टविदूरजम् । विषकोषकुहूशस्त्रागुरुपापतमोनिशाः ॥ मसीपङ्कमदाम्भोधियमुनाधूमकोकिलाः । गोलाङ्गुलास्यगुञ्जास्ये कण्ठः खञ्जनकेकिनोः ॥ शवलं तालतापिञ्जतिलेन्दीवरवल्लयः । रसविद्भूतशृङ्गारौ कटाक्षोऽलिः कणीनिका ॥ नीली जम्बूफलं मुस्ता काककृत्याकुकीर्त्तयः । भिन्नश्छाया गजाङ्गारखलान्तःकरणादयः ॥” इति कविकल्पलतायां २ श्लेषस्तवके ४ कुसुमम् ॥
