श्यावदन्तक
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
श्यावदन्तकः, त्रि, (श्यावा दन्ता यस्य । “विभाष । श्यावारोकाभ्याम् ।” ५ । ४ । १४४ । इति विभाषया दत्रादेशो न । स्वार्थे कन् च ।) स्वाभाविककृष्णवर्णदशनयुक्तः । प्रधानदन्तद्वयमध्यस्थक्षुद्रदन्तविशिष्टः । प्रधान- दन्तोपरिदन्तान्तरयुक्तः । यथा विष्णुः । अथ नर- कानुभूतदुःखानां तिर्य्यक्त्वमुत्तीर्णानां मानुष्ये लक्षणानि भवन्ति । कुष्ठ्यतिपातकी । ब्रह्महा यक्ष्मी । सुरापः श्यावदन्तकः । सुवर्णहारी कुनखी । गुरुतल्पगो दुश्चर्म्मा इत्यादि । श्याव- दन्तकः स्वभावकृष्णदन्तः । प्रधानदन्तद्वयमध्य- वर्त्तिक्षुद्रदन्तः । प्रधानदन्तोपरि दन्तान्तर- मिति केचित् ॥ कुनखी सङ्कचितनखः । दुश्चर्म्मा स्वभावतः अनावृतमेढ्रः । अतएव महारोगिणो यावज्जीवमशीचमाह कूर्म्मपुराणम् । “क्रियाहीनस्य मूर्खस्य महारोगिण एव च । यथेष्टाचरणस्याहुर्म्मरणान्तमशौचकम् ॥” क्रियाहीनस्य नित्यनैमित्तिकक्रियाननुष्ठायिनः । मूर्खस्य गायत्रीरहितस्य । सार्थगायत्रीरहि- तस्येति रुद्रधरः ॥ महारोगिणः पापरोगाष्ट- कान्यतमरोगवतः । ते च उन्मादस्त्वग्दोषो राजयक्ष्मा श्वासो मधुमेहो भगन्दर उदरो- ऽश्मरी इत्यष्टौ पापरोगा नारदोक्ताः । यथेष्टा- चरणस्य द्यूतवेश्याद्यासक्तस्य । एवञ्च भविष्य- पुराणोक्तं यतिचान्द्रायणप्रायश्चित्तं अकृतप्राय- श्चित्तानां कुष्ठ्यादीनां दाहे बोद्धव्यम् । अन्य- थैषां प्रायश्चित्तोपदेशो विफलः स्यात् । यथा विष्णुः । कुनखी श्यावदन्तश्चद्वादशरात्रं कृच्छ्रं चरित्वोद्धरेयातां तद्दन्तनखौ इति । अत्र द्वादश- रात्रं पराकरूपं तत्र पञ्चधेनवः । न तु प्राजा- पत्यम् । तद्दाहकर्त्तुर्यतिचान्द्रायणेन विषम- शिष्टत्वात् । अत्र बहूनामेकधर्म्माणामिति वच- नात् आकाङ्क्षितत्वात् कुष्ठ्यादीनामपि प्रायश्चि- त्तम् । अतएव प्रायश्चित्तविवेकेऽप्युक्तं एवं दुश्चर्म्मादिष्वप्यूह्यमिति । महापातकादतिपात- कस्य गुरुत्वात् तच्छेषेऽपि प्रायश्चित्तं द्विगुणम् । इति शुद्धितत्त्वम् ॥
Monier-Williams
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
श्यावदन्तक/ श्याव--दन्तक ( Mn. Ya1jn5. Sus3r. S3a1rn3gS. ) , mfn. having dark or discoloured teeth( accord. to some " having a little tooth growing over the two front teeth ").
