श्येनः
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
श्येनः, पुं, (श्यै ङ गतौ + श्यास्त्याहृञविभ्य इनच् ।” उणा० २ । ४६ । इति इनच् ।) पाण्डुरवर्णः । इति मेदिनी ॥ पक्षिविशेषः । सञ्चालः इति वाज् इति च भाषा । तत्पर्य्यायः । शशादनः २ पत्री ३ । इत्यमरः ॥ कपोतारिः ४ पतद्भीरुः ५ । इति शब्दरत्नावली । घाति- पक्षी ६ ग्राहकः ७ मारकः ८ । इति जटा- धरः ॥ शशादः ९ क्रव्यादः १० क्रूरः ११ वेगी १२ खगान्तकः १३ करगः १४ नीलपिच्छः १५ लम्बकर्णः १६ रणप्रियः १७ रणपक्षी १८ पिच्छवाणः १९ स्थूलनीलः २० भयङ्करः २१ । इति राजनिर्घण्टः ॥ शशघातकः २२ । इति भावप्रकाशः ॥ अस्य मांसगुणाः प्रसहशब्दे द्रष्टव्याः ॥ * ॥ तस्य शुभाशुभसूचकत्वं यथा, -- “प्रदक्षिणीकृत्य नरं व्रजन्तो यात्रासु वामेन गताः प्रवेशे । श्येनाः प्रशस्ताः प्रकृतस्वरास्ते शान्ताः प्रदीप्ता विततस्वरास्ते ॥ श्येनो नृणां दक्षिणवामपृष्ठ- भागेषु भाग्यैः स्थितिमादधाति । तिष्ठन् पुरस्तान्मृतये करोति युद्धे जयं छन्नरथध्वजस्थः ॥” इति वसन्तराजशाकुने अष्टमवर्गः ॥
Apte
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
श्येनः [śyēnḥ], [श्यै-इनन् Uṇ.2.45]
The white colour.
Whiteness.
A hawk, falcon.
Violence.
Ved. A horse.
A kind of array in battle. -Comp. -अवपातः the swoop of a hawk; श्येनावपातचकिता वनवर्ति- केव Māl.8.8. -कपोतीय a. (from Śibi story) sudden (calamity).
करणम्, करणिका burning on a separate funeral pile.
a hawk-like, i. e. rash and desperate, act. -चित्, -जीविन् m. falconer; Ms.3.164. -पातः the swoop of a hawk or eagle; वडवे इव संयुक्ते श्येनपाते दिवौकसाम् Mb.3.133.26.
