श्रथ
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
श्रथ, इ ङ शैथिल्ये । इति कविकल्पद्रुमः ॥ (भ्वा० आत्म०-अक०-सक०-च सेट् ।) शैथिल्यमिह शिथिलीभावस्तत्करणञ्च ॥ इ, श्रन्थ्यते । ङ, श्रन्थते वस्त्रं शिथिलं स्यादित्यर्थः । श्रन्थते वस्त्रं लोकः शिथिलं करोति इत्यर्थः । इति दुर्गा- दासः ॥
श्रथ, क यत्ने । प्रतिहृषि । इति कविकल्पद्रुमः ॥ (चुरा०-पर०-यत्ने अक०-प्रतिहर्षे सक० सेट् । क, श्राथयति पठितुं शिष्यः । श्राथयति शिशुं लोकः पुनःपुनर्हर्षयति इत्यर्थः । इति दुर्गा- दासः ॥
श्रथ कि वधे । मोक्षे । वधे । इति कविकल्पद्रुमः ॥ (चुरा०-पक्षे भ्वा०-सक०-सेट् ।) कि, श्राथ- यति श्रथयति । श्लाघ्यं श्राथयति स्फुटार्थ- मधुरं गद्यञ्च पद्यं सदा भावालङ्कृतिपेशलं श्रथयति स्पष्टाक्षरं नाटकम् । श्रथ्नाति प्रथि- तावदातचरितः शास्त्रं विचित्रञ्च य इति हलायुधोक्तं श्रथयतीति श्रथ त् क दौर्ब्बल्ये इत्यदन्तस्य रूपम् । अनेकार्यत्वात् बध्नाती- त्यर्थः । इति दुर्गादासः
श्रथ, त् क दौर्बल्ये । इति कविकल्पद्रुमः ॥ (अदन्त चुरा०-पर०-अक०-सेट् ।) श्रथयति । इति दुर्गादासः ॥
श्रथ, म वधे । इति कविकल्पद्रुमः ॥ (भ्वा०-पर०- सक०-सेट् ।) म, श्रथयति ! इति दुर्गादासः ॥
वाचस्पत्यम्
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
श्रथ¦ यत्ने अक॰ प्रतिहर्षे सक॰ चु॰ उभ॰ सेट्। श्राथयति ते अशिश्रयत् त।
श्रथ¦ दौर्बल्ये अ॰ चु॰ उ॰ अक॰ सेट्। श्रथयति ते असश्रथत् त।
श्रथ¦ बधे भ्वा॰ पर॰ सक॰ सेट्। श्रथति अश्रथीत् अश्राथीत्।
श्रथ¦ बन्ध मोक्षे बधे च वा चु॰ उ॰ पक्षे भ्वा॰ पर॰ सक॰ सेट्। श्राथयति ते श्रथति अशिश्रथत् त अश्रथोत्--अश्राथात्।
श्रथ¦ शैथिल्ये अक॰ तत्करणे सक॰ भ्वा॰ आ॰ सेट् इदित्। श्रन्थते अश्रन्थिष्ट।
Monier-Williams
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
श्रथ See. हिम-श्रथ.
