श्रमः
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
श्रमः, पुं, (श्रम + घञ् । नोदात्तोपदेशस्येति वृद्ध्यभावः ।) तपः । खेदः । इति श्रमधात्वर्थ- दर्शनात् ॥ श्रान्तिः । तत्पर्य्यायः । क्लमः २ । क्लेशः ३ परिश्रमः ४ प्रयासः ५ आयासः ६ व्यायामः ७ । इति हेमचन्द्रः ॥ क्लमथः ८ । इत्यसरः ॥ (यथा, भागवते । ५ । १९ । १४ । “यथैहिकामुष्मिककामलम्पटः सुतेषु दारेषु धनेषु चिन्तयन् । शङ्केत विद्वान् कुकलेवरात्ययात् यस्तस्य यत्नः श्रम एव केवलम् ॥”) शस्त्राभ्यासः । तत्पर्य्यायः । स्वुरली २ योग्यः ३ अभ्यासः ४ । इति च हेमचन्द्रः ॥
Apte
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
श्रमः [śramḥ], [श्रम्-घञ् न वृद्धिः]
Toil, labour, exertion, effort; अलं महीपाल तव श्रमेण R.2.34; जानाति हि पुनः सम्यक् कविरेव कवेः श्रमम् Subhāṣ.; R.16.75; Ms.9.28.
Weariness, fatigue, exhaustion; विनयन्ते स्म तद्योधा मधुभिर्विजय- श्रमम् R.4.65,67; Me.17,52; Ki.5.28.
Affliction, distress; देशकालविचारीदं श्रमव्यायामनिःस्वनम् Mb.14.45.2.
Penance, austerity, mortification of the body; दिवं यदि प्रार्थयसे वृथा श्रमः Ku.5.45.
(a) Exercise; अयोदण्डेन च श्रममकरोत् K.76. (b) Especially military exercise, drill.
Hard study.
= आश्रम q. v.; तदा स पर्याववृते श्रमाय Mb.3.114.5. -Comp. -अम्बु n., -जलम्, -सलिलम् perspiration, sweat; संपेदे श्रमसलिलोद्गमो विभूषाम् Ki.7.5. -आर्त a. oppressed by fatigue; Ms.8.67. -कर्षित a. worn out by fatigue. -घ्नी Cucurbita Lagenaria (Mar. दुध्या भोपळा). -भञ्जनी the Nāgavela plant. -विनोदः the act of dispelling fatigue. -साध्यa. to be accomplished by dint of labour. -स्थानम् a drill-ground, gymnasium &c.
