सामग्री पर जाएँ

श्रवणद्वादशी

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

श्रवणद्वादशी, स्त्री, (श्रवणयुक्ता द्वादशी ।) श्रवणानक्षत्रयुक्तभाद्रशुक्लद्वादशी । यथा, -- पितामह उवाच । “श्रवणद्वादशीं वक्ष्ये भुक्तिमुक्तिप्रदायिनीम् । एकादशी द्वादशी च श्रवणेन च संयुता ॥ विजया सा तिथिः प्रोक्ता हरिपूजादि चाक्ष- यम् । एकभक्तेन नक्तेन तथैवायाचितेन च ॥ उपवासेन भक्ष्येण नैवाद्वादशिको भवेत् । कांस्यं माषं तथा क्षौद्रं लोभं वितथभाषणम् ॥ व्यायामञ्च व्यवायञ्च दिवास्वप्नमथाञ्जनम् । शिलापिष्टं मसूरञ्च द्वादश्यां वर्ज्जयेन्नरः ॥ मासि भाद्रपदे शुक्ले द्वादशी श्रवणान्विता । महती द्वादशी ज्ञेया उपवासे महाफला ॥ सङ्गमे सरितः स्नानं बुधयुक्ता महाफला । कुम्भे सरत्ने सजले यजेत् स्वर्णन्तु वामनम् ॥ सितवस्त्रयुगच्छन्नं छत्रोपानद्युगान्वितम् । ओ~ नमो वासुदेवाय शिरः संपूजयेत्ततः ॥ श्रीधराय मुखं तद्वत् कण्ठं कृष्णाय वै नमः । नमः श्रीपतये वक्षो भुजौ सर्व्वास्त्रधारिणे ॥ व्यापकाय नमः कक्षौ केशवायोदरं बुधः । त्रैलोक्यपतये मेढ्रं जङ्घां सर्व्वपते नमः ॥ सर्व्वात्मने नमः पादौ नैवेद्यं घृतपायसम् । कुम्भांश्च मोदकान् दद्यात् जागरं कारयेन्निशि ॥ स्नात्वा प्रीतोऽर्च्चयित्वा तु कृतपुष्पाञ्जलिर्वदेत् । नमो नमस्ते गोबिन्द बुध श्रवणसंज्ञक ॥ अघौघसंक्षयं कृत्वा सर्वसौख्यप्रदो भव । प्रीयतां देव देवेशो विप्रेभ्यः कलसान् ददेत् । नद्यास्तीरेऽथवा कुर्य्यात् सर्व्वान् कामानवा- प्नुयात् ॥” इति गारुडे १४१ अध्यायः ॥ अन्यत् द्वादशीशब्दे द्रष्टव्यम् ॥

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

श्रवणद्वादशी/ श्रवण--द्वादशी f. a partic. तिथिor lunar day (when certain religious observances of great efficacy are performed ; it is said to fall on the twelfth of the light half of भाद्र, when that month is connected with the asterism श्रवण) BhP.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

ŚRAVAṆADVĀDAŚĪ : A holy day. Observance of a fast on this day after a bath at the confluence of two rivers is believed to bring Mokṣa.


_______________________________
*8th word in left half of page 735 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=श्रवणद्वादशी&oldid=439073" इत्यस्माद् प्रतिप्राप्तम्