श्रव्यः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
श्रव्यः, त्रि, श्रोतव्यः । श्रवणार्हवाक्यादिः । श्रुधातो र्यप्रत्ययेन निष्पन्नः ॥ (यथा, राधातन्त्रे । ९ । ३ । “यत्श्रुत्वा परमेशानि श्रव्यमन्यन्न रोचते ॥”) श्रा, ल स्वेदे । इति कविकल्पद्रुमः ॥ अदा०- पर०-अक०-अनिट् ।) रेफयुक्तस्तालव्यादिः । ल, श्राति । इति दुर्गादासः ॥
