श्रावणी
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
श्रावणी, स्त्री, (श्रवणेन नक्षत्रेण युक्ता पौर्णमासी । श्रवण + “नक्षत्रेण युक्तः कालः ।” ४ । २ । ३ । इत्यण् । ङीप् ।) श्रावणमासीयपूर्णिमा । यथा, “पौर्णमासी तथा माघी श्रावणी च नरोत्तम । एतांस्तु श्राद्धकालान् वै नित्यानाह प्रजापतिः ॥ इति श्राद्धतत्त्वम् ॥ बृक्षविशेषः । मुण्डी इति थोलकुडिया इति च हिन्दीभाषा । तत्पर्य्यायः । मुण्डितिका २ भिक्षुः ३ श्रवणशीर्षिका ४ श्रवणा ५ प्रव्रजिता ६ परिव्राजी ७ तपोधना ८ । अस्या गुणाः । कषायत्वम् । कटुत्वम् । उष्णत्वम् । कफवाता- मातिसारकासविषच्छर्द्दिनाशित्वञ्च । इति राज- निर्घण्टः ॥ अपि च । “मुण्डी भिक्षुरपि प्रोक्तः श्रावणी च तपोधना । श्रवणाह्ना मुण्डितिका तथा श्रवणशीर्षिका ॥ महाश्रावणिकान्या तु सा स्मृ ता भूकदम्बिका कदम्बपुष्पिका च स्यादव्यथा तु तपस्विनी । मुण्डितिका कटुः पाके वीर्य्योष्णा मधुरा लघुः मेध्या गण्डा पची कृच्छ्रकृमियोन्यर्त्तिपाण्डुनुत ॥ श्लीपदारुच्यपस्मारप्लीहमेदोगुदार्त्तिहृत् । महामुण्डी च तत्तुल्या गुणैरुक्ता महर्षिभिः ॥” इति भावप्रकाशः ॥ अन्यत् मुण्डितिकाशब्दे द्रष्टव्यम् ॥
Apte
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
श्रावणी [śrāvaṇī], 1 The day of full moon in Śrāvaṇa.
N. of an annual ceremony performed on this day when the sacred thread is put on anew.
Monier-Williams
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
श्रावणी f. See. below
श्रावणी f. (See. under 1. श्रावण)the day of full-moon in the month श्रावणGr2S3rS. Mn. Ya1jn5. etc.
श्रावणी f. a partic. पाक-यज्ञGaut.