सामग्री पर जाएँ

श्रितः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

श्रितः, त्रि, (श्रि + क्तः । “श्र्युकः किति ।” ७ । २ । ११ इति इडागमो न ।) सेवितः । आश्रितः । इति सिद्धान्तकौमुदी ॥ (यथा, रघुः । ११ । ६१ । “भास्करश्च दिशमध्युवास यां तां श्रिताः प्रतिभयं ववाशिरे ॥” पक्वः । यथा, रामायणे । २ । ५६ । २८ । “लक्ष्मणः पुरुषव्याघ्रमथ राघवमब्रवीत् । अयं सर्व्वः समस्ताङ्गः श्रितः कृष्णमृगो मया । देवता देवसङ्काश यजस्व कुशलो ह्यसि ॥”)

"https://sa.wiktionary.org/w/index.php?title=श्रितः&oldid=172440" इत्यस्माद् प्रतिप्राप्तम्