सामग्री पर जाएँ

श्रीचक्रम्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

श्रीचक्रम्, क्ली, (श्रियाश्चक्रम् ।) त्रिपुरसुन्दर्य्याः पूजायन्त्रविशेषः । यथा, -- “श्रीचक्रस्योद्धृतिं वक्ष्ये तत्र पूजाप्रसिद्धये । बिन्दुगर्भं त्रिकोणन्तु कृत्वा चाष्टारमुद्धरेत् ॥ दशारद्वयमन्वस्राष्टारषोडशकोणकम् । त्रिरेखात्मकभूगेहवेष्टितं यन्त्रमालिखेत् ॥” इति मन्त्रमहोदधौ ११ तरङ्गः ॥ अपिच । अथ श्रीचक्रम् । यथा बिन्दुमत् त्र्यस्र अष्टकोणं एतत्रयं संहारचक्रम् । द्विदशारं चतुर्द्दशारं स्थितिचक्रमेतत्त्रयम् । अष्टपत्रं षोडशदलं वृत्तत्रयम् । भूसदनत्रयं चतुर्द्दार- समायुक्तमेतत् सृष्ट्यात्मकम् । तदुक्तं यामले । “बिन्दुत्रिकोणवसुकोणदशारयुग्म- मन्वस्रनागदलसङ्गतषोडशारम् । वृत्तत्रयञ्च धरणीसदनत्रयञ्च श्रीचक्रराजमुदितं परदेवतायाः ॥” चक्रराजं सिन्दूरकुङ्कुमादिना लिखितं सुवर्ण- रजतपञ्चरत्नस्फटिकताम्राद्युत्कीर्णं कुर्य्यात् । तथा भूतभैरवतन्त्रे । “अकृत्वा सुसमां रेखां नालिख्य सुसमं मुखम् योऽत्र यन्त्रे प्रवर्त्तेत तस्य सर्व्वं हराम्यहम् ॥ यस्या यत्र स्थितिर्द्देवि तत्र तां नार्च्चयेद्यदि । तन्मांसरुधिरेणैव पारणा तस्य जायते ॥ पशोरालोकनं न स्यात्तथा कुरुत यत्नतः । यदि दैवात् पशोरग्रे लिखितं विद्यते क्वचित् । ममाङ्गक्षतिरेवात्र क्रियते पापबुद्धिना ॥” तथा भूतभैरवे । “योऽस्मिन् यन्त्रेमहेशानि केशराणि प्रकल्पयेत् योगिनीसहितास्तस्य हिंसां कुर्व्वन्ति भैरवाः ॥” इति वचनान्नात्र केशराणि । “न रात्रावङ्कयेत् यन्त्रं साधकस्तु कदाचन । प्रमादादङ्किते यन्त्रे शापो भवति तत्क्षणात् ॥ तत्रापराजितापुष्पे करवीरे जवासु च । तत्र देवी वसेन्नित्यं तद्यन्त्रे पूजनं मम ॥” तथा सच्छन्दभैरवे । “कुर्य्याच्च स्थण्डिले यन्त्रं हस्तमात्रं सुसुन्दरम् । रत्नादिषु च निर्म्माणे मानमिच्छावशाद्भवेत् ॥ एकतोलं द्वितोलं वा त्रितोलं वेदतोलकम् । इतोऽधिकं नरः कृत्वा प्रायश्चित्तीभवेत् ध्रुवम् ॥ रक्तेन रजसापूर्य्य श्रीचक्रं भुवि पूजयेत् । नश्यन्ति सर्व्वविघ्नानि प्राप्यते च यथेप्सितम् ॥ दशभागं सुवर्णस्य ताम्रस्य द्वादशं तथा । षड्दशं रजतस्याथ चैतल्लोहत्रयं भवेत् ॥ चक्रेऽस्मित् पूजयेद्यो हि स सौभाग्यमवाप्नुयात अणिमाद्यष्टसिद्धीनामधिपो जायतेऽचिरात् ॥ विद्रुमे रचिते यन्त्रे पद्मरागेऽथवा प्रिये । इन्द्रनीलेऽथ वैदूर्य्ये स्फाटिके मरकतेऽपि वा । धनं पुत्त्रं तथा दारान् यशांसि लभते ध्रुवम् । ताम्रन्तु कान्तिदं प्रोक्तं सुवर्णं शत्रुनाशनम् ॥ राजतं क्षेमदञ्चैव स्फाटिकं सर्व्वसिद्धिदम् ॥” एतदद्यन्त्रमात्रे ज्ञेयम् ॥ * ॥ अथ श्रीचक्रनाशे प्रायश्चित्तम् । “दग्धं च स्फुटितं यन्त्रं हृतं चौरेण वा प्रिये । उपवासं प्रकुर्व्वोत दिनमेकमतन्द्रितः ॥ लक्षमात्रं जपेद्विद्यां होमतर्पणपूर्व्वकम् । सद्भक्त्या च गुरुं तोष्य ब्राह्मणानपि भोज- येत् ॥” लक्षं जप्त्वा दशांशहोमः तद्दशांशञ्च तर्पणम् । लक्षमयुतमित्येके । “कदाचिल्लुप्तचिह्नं वा स्फु टितादि विदूषणम् भग्नं करोति यो मर्त्यो मृत्युस्तस्य द्रुतं भवेत् तस्माच्च तीर्थराजे वा गङ्गादिसरितां वरे ॥ समुद्रे वा क्षिपेद्देवि चान्यथा दुःखमाप्नुयात् ॥” इदन्तु यन्त्रमात्रविषयम् ॥ * ॥ अथ श्रीचक्र- पादोदकमाहात्म्यम् । “गङ्गापुष्करनर्म्मदासु यमुनागोदावरीगोमती- गङ्गाद्वारगयाप्रयागवदरीवाराणसीसिन्धुषु । रेवासेतुसरस्वतीप्रभृतिषु ब्रह्माण्डभाण्डोदरे तीर्थस्नानसहस्रकोटिफलदं श्रीचक्रपादोदकम्” अथ दर्शनफलम् । “सम्यक् शतक्रतून् कृत्वा यत् फलं समवाप्नुयात् तत् फलं लभते भक्त्या कृत्वा श्रीचक्रदर्शनम् ॥ षोडशं वा महादानं कृत्वा यल्लभते फलम् । तत् फलं समवाप्नोति कृत्वा श्रीचक्रदर्शनम् ॥ सार्द्धत्रिकोटितीर्थेषु स्नात्वा यत् फलमश्नुते । तत् फलं लभते भक्त्या कृत्वा श्रीचक्रदर्शनम् ॥ इति तन्त्रसारः ॥

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

--the mantra of: is महालक्ष्मी: worshipped by विष्णु, शिव and ब्रह्मा: propitiation of, makes one learned: Icon of: the mudras in connection with the worship of; दीक्ष and its methods. Br. IV. ४१. 3-5; chh. ४२-3.

"https://sa.wiktionary.org/w/index.php?title=श्रीचक्रम्&oldid=439115" इत्यस्माद् प्रतिप्राप्तम्