श्रीधरः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
श्रीधरः, पुं, (धरतीति । धृ + अच् । श्रिया धरः ।) विष्णुः । (यथा, मुकुन्दमालायाम् । ९ । “मा भैर्मन्दमनो विचिन्त्य बहुधा यामीश्चिरं यातना नामी नः प्रभवन्ति पापरिपवः स्वामी ननु श्रीधरः । आलस्यं व्यपनीय भक्तिसुलभं ध्यायस्व नारायणं लोकस्य व्यसनापनोदनकरो दासस्य किं न क्षमः ॥”) भूतार्हद्भेदः । इति हेमचन्द्रः ॥ शालग्राम- चक्रे, क्ली, । यथा, -- “अतिक्षुद्रं द्विचक्रन्तु वनमालाविभूषितम् । श्रीधरं देवि विज्ञेयं श्रीप्रदं गृहिणां सदा ॥” इति ब्रह्मवैवर्त्ते प्रकृतिखण्डे १९ अध्यायः ॥
