सामग्री पर जाएँ

श्रीभागवतम्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

श्रीभागवतम्, क्ली, (श्रीमत् भागवतमिति मध्यपद- लोपिसमासः ।) अष्टादशमहापुराणान्तर्गता- ष्टादशसहस्रश्लोकयुक्तपुराणविशेषः ! (तत्तु मत- भेदेन विष्णुभागवतदेवीभागवतभेदात् । द्विवि- धम् ।) यथा, -- “अष्टादशं भागवतं सारमाकृष्य सर्व्वतः । कृतवान् भगवान् व्यासः शुकञ्चाध्यापत् सुतम् ॥ स्कन्धेर्द्वादशभिर्युक्तं ब्रह्मविद्यासमन्वितम् । वेदवेदान्तसारं तत् पुराणानाञ्च सत्तम ॥ यत्र संकीर्त्तितः कृष्णो भगवान् वै पदे पदे । श्रीभागवतमित्येव ये स्मरन्ति नराः क्वचित् । मुच्यन्ते सर्व्वपापेभ्यो यथा नाम्ना गदाभृतः ॥ महीभृतां यथा मेरुर्देवानां केशवो यथा । सुरभिः कामधेनूनामप्सरस्सु यथोर्व्वशी ॥ कार्ष्णानां पार्व्वतीनाथो राज्ञां दाशरथिर्यथा । सप्तीनाञ्चेव गन्धर्व्वा नदीनां जाह्नवी यथा । पुराणानां तथा राजन् श्रीभागवतमुत्तमम् ॥ अम्बरीश उवाच । पुराणं तं भागवतं पठ मे पुरतो हरेः । चरितं दैत्यराजस्य प्रह्लादस्य च मत्पतेः ॥ गौतम उवाच । अम्बरीश शुकप्रोक्तं नित्यं भागवतं शृणु । पठस्व स्वमुखेनापि यदीच्छति भवक्षयम् ॥ स्कन्धे स्कन्धेऽश्वमेधस्य फलमाप्नोति मानवः । प्रत्यध्यायं राजसूयफलेन परियुज्यते ॥ प्रतिश्लोकं वाजपेयफलं तस्योपजायते । पदे पदे महाराज तीर्थस्नानफलं लभेत् ॥ एतद्भागवतं देवि पुराणं मुक्तिसाधकम् । तत्रापि दशमस्कन्धः सर्व्वभक्तमनोहरः । तत्रापि रासलीलाढ्या पञ्चाध्यायी महाफला ॥ श्रीपार्व्वत्युवाच । सर्व्वञ्च हरिलीलाढ्यं श्रीमद्भागवतं यदि । स्कन्धस्य दशमस्यायं महिभा केन हेतुना ॥ रासलीलेति तत्रापि कथ्यते सर्वतोऽधिका । तत्र मे कारणं श्रोतुमुत्कण्ठा वर्द्धते भृशम् ॥ श्रीसदाशिव उवाच । स्वयं भगवतो जन्म तस्य लीला च वर्ण्यते । श्रुतीनाञ्च स्तुतिर्यत्र सर्व्ववेदार्थसम्मिता ॥ स्वयं भगवतो लीला सर्वशक्तिश्च दर्शिता । दशमस्कन्धमाहात्म्यं एतद्वै कारणं मतम् ॥ तत्रापि रासलीलाया यन्माहात्म्यमुदीरितम् । तत्रापि कारणं वच्मि शृणु पर्वतनन्दिनि ॥ यः स्वयं भगवान् कृष्णः पूर्णैश्वर्य्य इतीर्य्यते । स सर्व्वशक्तिसम्पूर्णः सर्वलीलाप्रकाशकः ॥ तस्यैव शक्तयो गोप्यः प्रोक्ताः सर्व्वोत्तमा यतः । शक्तीनाञ्च शक्तिमतो लीला यत्रैकतः स्थिता । सा लीला सर्वतः श्रष्ठा कीर्त्तिता परम- र्षिभिः ॥” इति पाद्मे पातालखण्डे ७१ अध्यायः ॥ (तथाच शिवपुराणे । “भगवत्याश्च दुर्गायाश्चरितं यत्र विद्यते । तत्तु भागवतं प्रोक्तं नतु देवीपुराणकम् ॥” अस्य विशेषविवृतिस्तु पुराणशब्द-भागवत- शब्दयोर्द्रष्टव्यम् ॥)

"https://sa.wiktionary.org/w/index.php?title=श्रीभागवतम्&oldid=172512" इत्यस्माद् प्रतिप्राप्तम्