श्रीमूर्त्ति
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
श्रीमूर्त्तिः, स्त्री, (श्रीयुक्ता मूर्त्तिः ।) देवविग्रहः । विष्णुप्रतिमा । यथा । अथ श्रीमूर्त्तयः । एका- दशस्कन्धे । “शैली दारुमयी लौही लेप्या लेख्या च मैकता मनोमयी मणिमयी प्रतिमाष्टविधा मता ॥ चलाचलेति द्विविधा प्रतिष्ठा जीवमन्दिरम् । उद्वासावाहने न स्तः स्थिरायामुद्धवार्च्चने ॥ अस्थिरायां विकल्यः स्यात् स्थण्डिले तु भवेत् द्वयम् । स्नपनं त्वविलेप्यायामन्यत्र परिमार्ज्जनम् ॥ गोपालमन्त्रोद्दिष्टत्वात् तच्छ्रीमूर्त्तिरपेक्षिता । तथापि वैष्णवप्रीत्यै लेख्याः श्रीमूर्त्तयोऽखिलाः ॥” अथ श्रीमूर्त्तिलक्षणानि । हयशीर्षपञ्चरात्रे । भगवच्छ्रीहयशीर्षब्रह्मसंवादे । “आदिमूर्त्तिर्वासुदेवः सङ्कर्षणमथासृजत् । चतुर्मुर्त्तिः परं प्रोक्तं एकैको भिद्यते त्रिधा ॥ केशवादिप्रभेदेन मूर्त्तिद्वादशकं स्मृतम् । पङ्कजं दक्षिणे दद्यात् पाञ्चजन्यं तथोपरि ॥ वामोपरि गदा यस्य चक्रं चाधोव्यवस्थितम् । आदिमूर्त्तेस्तु भेदोऽयं केशवेति प्रकीर्त्त्यते ॥ १ ॥ अधरोत्तरभावेन कृतमेतत्तु यत्र वै । नारायणाख्या सा मूर्त्तिः स्थापिता भुक्ति- मुक्तिदा ॥ २ ॥ सव्याधः पङ्कजं यस्य पाञ्चजन्यं तथोपरि । दक्षिणोर्द्धे गदा यस्य चक्रं चाधोव्यवस्थितम् ॥ आदिमूर्त्तेस्तु भेदोऽयं माधवेति प्रकीर्त्त्यते ॥ ३ ॥ दक्षिणाधःस्थितं चक्रं गदा यस्योपरिस्थिता ॥ वामोर्द्ध्वसंस्थितं पद्मं शङ्खं चाधोव्यवस्थितम् । सङ्कर्षणस्य भेदोऽयं गोविन्देति प्रकीर्त्त्यते ॥ ४ ॥ दक्षिणोपरि पद्मं तु गदा चाधोव्यवस्थिता । सङ्कर्षणस्य भेदोऽयं विष्णुरित्यभिशब्द्यते ॥ ५ ॥ दक्षिणोपरि शङ्खञ्च चक्रं चाधः प्रदृश्यते । वामोपरि तथा पद्मं गदा चाधः प्रदृश्यते । मधुसूदननामायं भेदः सङ्कर्षणस्य च ॥ ६ ॥ त्रिविक्रममूर्त्तिमाह । दक्षिणोर्द्धे गदा यस्य पङ्कजं चाप्यधः स्थितम् । वामोर्द्धे संस्थितं चक्रमधः शङ्खं प्रदृश्यते । ब्रह्माण्डगं वामपादं दक्षिणं शेषपृष्ठगम् ॥ ७ ॥ श्रोवामनमूर्त्तिमाह । बलिवञ्चनसयुक्त वामनं चाप्यधःस्थितम् । वामोर्द्धे कौमोदी यस्य पुण्डरीकमधास्थितम् ॥ सेव्या निजनिजैरेव मन्त्रैः स्वस्वेऽष्ट मूर्त्तयः । शालग्रामात्मके रूपे नियमो नैष विद्यते ॥ द्विभुजा जलदश्यामा त्रिभङ्को मधुराकृतिः ॥ सेव्या ध्यानानुरूपैव श्रीमूर्त्तिः कृष्णदैवतैः ॥ अन्याश्च विविधाः श्रीमदवतारादिमूर्त्तयः । प्रादुर्भावविधावग्रे लेख्यास्तत्तद्विशेषतः ॥ नित्यकर्म्मप्रसङ्गेऽत्र मूर्त्तिजन्मप्रतिष्ठयोः । विधिर्न्न लेखितुं योग्यः स तु लेखिष्यतेऽग्रतः ॥” इति श्रीहरिभक्तिविलासे १८१ विलासः ॥
वाचस्पत्यम्
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
श्रीमूर्त्ति¦ स्मी श्रीपूर्वककथयोग्या मूर्त्तिः। देवताप्रतिमायांराजनि॰। विष्णोर्मूर्चिभेदाश्चतुर्विंशति मूर्त्तिशब्देदृश्या। श्रीमूर्त्तयश्चाष्टविधाः भाग॰
११ स्कन्दे दर्शिता यथा
“शैली दारुमयी लौ ही लेप्या लेख्या च सैकती। मनो-मयी मणिमयी प्रतिमाष्टबिधा मता। चलाचलेति द्वि-[Page5155-a+ 38] विधा प्रतिष्ठा जीवमन्दिरम्। उद्वासावाहने न स्तःस्थिरायामुद्धवार्चने। अस्थिरायां विकल्पः स्यात् स्यण्डिले तु भवेत् द्वयम्। स्वपनं त्वविलेप्यायामन्यत्र परि-मार्जनम्। गोपालमन्त्राद्दिष्टत्वात् तच्छ्रीमूर्त्तिरपेक्षिता। तथापि वैष्णवप्रीत्यै लेख्याः श्रीमूर्त्तयोऽखिलाः”।
