सामग्री पर जाएँ

श्रीरामनवमी

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

श्रीरामनवमी, स्त्री, (श्रीरामस्य नवमी तज्जन्म दिनत्वात् ।) चैत्रशुक्लनवमी । सा च श्रीरामस्य जन्मतिथिः ॥ तद्व्रतकथा यथा, -- “पुरैकदा सुखासीन ब्रह्माणं जगतां पतिम् । उवाच सहसागत्य सनकः संजितेन्द्रियः ॥ सनक उवाच । राज्ञा दशरथेनैव राज्ञ्या कोशल्ययापि वा । कस्मात् कर्म्मवशाल्लब्धः पुत्त्रोऽसौ जगतीपतिः । दूर्व्वादलश्यामरामो विस्तार्य्य कथयस्व मे ॥ ब्रह्मोवाच । साधु पृष्टं त्वया वत्म जगतां हितकारकम् । पुरा राजा दशरथः कौशल्या च समाहितौ ॥ जजाप मन्त्रं दुर्गायाः शिवस्य च विशेषतः । तयोर्जपेन तुष्टः सन् शिवः प्रत्यक्षतां गतः ॥ दशरथ उवाच । अद्य मे सफलं जन्म अद्य मे सफलं तपः । अद्य मे सफलं चक्षुर्यतस्त्वमवलोकितः ॥ श्रीशिव उवाच । किन्ते काम्यं महाराज कथयस्व ददामि तत् ॥ दशरथ उवाच । देवदेवाप्यपुत्त्रोऽहमिति दुःखेन दुःखितः । चिरं विचार्य्य मनसा शिवाराधनतत्परः ॥ इति श्रुत्वा महादेवस्तमुवाच दयापरः । कुरु राजन् वंशयज्ञं ततस्ते जगतीपतिः ॥ श्रीरामनामा पुत्त्रोऽसौ कौशल्यायां भविष्यति । इत्युक्त्वा तं महादेवस्तयोरन्तर्हितोऽभवत् ॥ * ॥ दूर्व्वादलश्यामरामस्तस्य रक्षाकरो भवेत् ॥ भक्त्या यः शृणुयाद्रोगी उल्लाषः स भवेत् सदा बन्ध्या पुत्त्रवती सा च पतिचित्तानुवर्त्तिनी । सपत्नीदर्पदलनी सा भवेन्नात्र संशयः ॥ दरिद्रो लभते वित्तं भीतो भवति निर्भयः । यज्ञदानतपांस्यस्य तीर्थस्नानादिकाः क्रियाः ॥ न रामनवमी-नाम-व्रतस्यैककला-समाः । यस्मै कस्मै न दातव्यं न प्रकाश्यं कदाचन ॥ शिष्याय भक्तियुक्ताय शुचयेऽपि प्रदापयेत् । शठाय परतन्त्राय विकत्थनरताय च ॥ भ्रमादपि न वक्तव्यं यदीच्छेदात्मनो हितम् । मयैतत् कथितं वत्स तव स्नेहाद्व्रतोत्तमम् ॥ य इदं कुरुते भक्त्या श्रीरामनवमीव्रतम् । सर्व्वपापप्रमुक्तश्च अन्ते ब्रह्मत्वमाप्नुयात् ॥” इति श्रीरामभक्तितरङ्गिण्यां ब्रह्मसनकसंवादे श्रीरामनवमीव्रतकथा समाप्ता ॥

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

श्रीरामनवमी/ श्री--राम---नवमी f. the ninth of the light half of the month चैत्र(observed as a festival in honour of the birthday of राम-चन्द्र) MW. (723209 -निर्णयm. N. of wk. )

"https://sa.wiktionary.org/w/index.php?title=श्रीरामनवमी&oldid=353658" इत्यस्माद् प्रतिप्राप्तम्