सामग्री पर जाएँ

श्रीवत्सः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

श्रीवत्सः, पुं, (श्रीयुक्तं वत्सं वक्षो यस्य ।) विष्णुः । विष्णुचिह्नविशेषः । स तु वक्षस्यशुक्लवर्ण- दक्षिणावर्त्तलोमावली । (यथा, रघुः । १० । १० । “प्रभानुलिप्तश्रीवत्सं लक्ष्मीविभ्रमदर्पणम् । कौस्तुभाख्यमपांसारं बिभाणं बृहतोरसा ॥”) अर्हतां ध्वजः । इति हेमचन्द्रः ॥ सुरुङ्गाभेदः । इति त्रिकाण्डशेषः ॥

"https://sa.wiktionary.org/w/index.php?title=श्रीवत्सः&oldid=172543" इत्यस्माद् प्रतिप्राप्तम्