श्रीवृक्षः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
श्रीवृक्षः, पुं, (श्रीप्रदः श्रीप्रियो वा वृक्षः । शाक पार्थिवादिवत् सभासः ।) अश्वत्थवृक्षः । इति हेमचन्द्रः ॥ विल्ववृक्षः । यथा, -- “इषे मास्यसिते पक्षे नवम्यामार्द्रयोगतः । श्रीवृक्षे बोधयामि त्वां यावत् पूजां करो- म्यहम् ॥” इति तिथ्यादितत्त्वधृतश्रीदुर्गाबोधनमन्त्रः ॥ (विष्णोर्वक्षस्थःलस्थशुभावर्त्तविशेषः । यथा, विष्णुपादादिकेशान्तवर्णनस्तोत्रे । २८ । “वक्षः श्रीवृक्ष-कान्तं मधुकरनिकरश्यामलं शार्ङ्गपाणेः संसाराध्वश्रमात्तैरुपवनमिव यत् सेवितं तत् प्रपद्ये ॥” अश्वस्य ह्वदावर्त्तः । इति माघटीकायां मल्लि- नाथः । ५ । ५६ ॥)
