श्रीवेष्ट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
श्रीवेष्टः, पुं, (श्रियः सरलवृक्षस्य वेष्टः निर्य्यासः ।) सरलवृक्षस्य निर्यासः । तत्पर्य्यायः । “श्रीवेष्टो वृक्षधूपश्च चितागन्धो रसायकः । श्रीवासः श्रीरसो वेष्टो लक्ष्मीवेष्टस्तु वेष्टकः ॥ वेष्टसारो रसावेष्टः क्षीरशीर्षः सुधूपकः । धूपाङ्गस्तिलपर्णश्च सरलाङ्गोऽपि षोडश ॥” तद्गुणाः । “श्रीवेष्टः कटुतिक्तश्च कषायः श्लेष्मपित्तजित् । योनिदोषरुजाजीर्णव्रणघ्नाध्मानदोषनुत् ॥” इति राजनिर्घण्टः ॥ * ॥ अपि च । “श्रीवासः सरलः श्रावः श्रीवेष्टो वृक्षधूपकः । श्रीवासो मधुरस्तिक्तः स्निग्धोष्णस्तुवरः सरः ॥ पित्तलावातमूर्द्धाक्षिस्वररोगकफापहः । रक्षोऽश्रीस्वे ददौर्गन्ध्ययूकाकण्डूव्रणप्रणुत् ॥” इति भावप्रकाशः ॥
अमरकोशः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
श्रीवेष्ट पुं।
सरलद्रवः
समानार्थक:पायस,श्रीवास,वृकधूप,श्रीवेष्ट,सरलद्रव
2।6।129।1।3
श्रीवासो वृकधूपोऽपि श्रीवेष्टसरलद्रवौ। मृगनाभिर्मृगमदः कस्तूरी चाथ कोलकम्.।
पदार्थ-विभागः : खाद्यम्,पानीयम्
वाचस्पत्यम्
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
श्रीवेष्ट¦ पु॰ श्रियै वेष्ट्यतेऽसौ वेष्ट--कर्मणि घञ्। सरलवृक्ष-निर्य्यासे (तारपिन) राजनि॰।
शब्दसागरः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
श्रीवेष्ट¦ m. (-ष्टः)
1. Turpentine.
2. Resin. E. श्री the S4arala or pine tree, वेष्ट extract.
Monier-Williams
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
श्रीवेष्ट/ श्री--वेष्ट m. the resin of the Pinus Longifolia L.