सामग्री पर जाएँ

श्रीवेष्टः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

श्रीवेष्टः, पुं, (श्रियः सरलवृक्षस्य वेष्टः निर्य्यासः ।) सरलवृक्षस्य निर्यासः । तत्पर्य्यायः । “श्रीवेष्टो वृक्षधूपश्च चितागन्धो रसायकः । श्रीवासः श्रीरसो वेष्टो लक्ष्मीवेष्टस्तु वेष्टकः ॥ वेष्टसारो रसावेष्टः क्षीरशीर्षः सुधूपकः । धूपाङ्गस्तिलपर्णश्च सरलाङ्गोऽपि षोडश ॥” तद्गुणाः । “श्रीवेष्टः कटुतिक्तश्च कषायः श्लेष्मपित्तजित् । योनिदोषरुजाजीर्णव्रणघ्नाध्मानदोषनुत् ॥” इति राजनिर्घण्टः ॥ * ॥ अपि च । “श्रीवासः सरलः श्रावः श्रीवेष्टो वृक्षधूपकः । श्रीवासो मधुरस्तिक्तः स्निग्धोष्णस्तुवरः सरः ॥ पित्तलावातमूर्द्धाक्षिस्वररोगकफापहः । रक्षोऽश्रीस्वे ददौर्गन्ध्ययूकाकण्डूव्रणप्रणुत् ॥” इति भावप्रकाशः ॥

"https://sa.wiktionary.org/w/index.php?title=श्रीवेष्टः&oldid=172567" इत्यस्माद् प्रतिप्राप्तम्