सामग्री पर जाएँ

श्रुतकीर्त्तिः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

श्रुतकीर्त्तिः, स्त्री, (श्रुता कीर्त्तिर्यस्याः ।) जनक- भ्रातृकुशध्वजराजकन्या । सा शत्रुघ्नपत्नी । यथा “शत्रुघ्नञ्चापि धर्म्मात्मा अब्रवीन्मिथिलेश्वरः । श्रुतकीर्त्तेर्महाबाहो पाणिं गृह्णीष्व पाणिना ॥” इति वाल्मीकीये रामायणे बालकाण्डे ७३ सर्गः ॥ अपि च । “एवं भवत् भद्रं ते कुशध्वजसुते इमे । पत्न्यौ भजेतां सहितौ शत्रु घ्नभरतावुभौ ॥ इति तत्रैव ७२ सर्गः ॥ देवर्षौ, पुं, । (द्रौपदीगर्भजाते अर्ज्जुनस्य पुत्त्रे च पुं । यथा, महाभारते । १ । ६३ । १२० । “अर्ज्जुनात् श्रुतकीर्त्तिश्च शतानीकश्च नाकुलिः ॥”) कीर्त्तियुक्ते, त्रि । इति केचित् ॥

"https://sa.wiktionary.org/w/index.php?title=श्रुतकीर्त्तिः&oldid=172583" इत्यस्माद् प्रतिप्राप्तम्