सामग्री पर जाएँ

श्रुतम्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

श्रुतम्, क्ली, (श्रुयते स्म यदिति । श्रु + क्तः ।) शास्त्रम् । इत्यमरः ॥ (यथा, रघुः । २ । २१ । “श्रुतस्य यायादयमन्तमर्भक- स्तथा परेषां युधि चेति पार्थिवः । अवेक्ष्य धातोर्गमनार्थमर्थवित् चकार नाम्ना रघुमात्मसम्भवम् ॥”) श्रवणगोचरः । इति शब्दरत्नावली ॥ (यथा, माण्डूक्योपनिषदि । ३ । २ । ३ । “नायमात्मा प्रवचनेन लभ्यो न मेधया न बहुधा श्रुतेन ॥” पुं, कालिन्दीगर्भजातः कृष्णस्य पुत्त्रविशेषः । यथा, भागवते । १० । ६१ । १४ । “श्रुतः कविर्वृषो वीरः मुबाहुर्भद्र एकलः । शान्तिर्दर्शः पूर्णमासः कालिन्द्याः सोमको- ऽवरः ॥”)

"https://sa.wiktionary.org/w/index.php?title=श्रुतम्&oldid=172580" इत्यस्माद् प्रतिप्राप्तम्