श्रुतिः
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
श्रुतिः, स्त्री, (श्रूयतेऽनयेति । श्रु + “श्रुयजिस्तुभ्यः करणे ।” ३ । ३ । ९४ । इत्यस्य वार्त्तिकोक्त्या करणे ।” क्तिन् ।) वेदः । (यथा, मनुः । २ । १० । “श्रुतिस्तु वेदो विज्ञेयो धर्म्मशास्त्रन्तु वै स्मृतिः ॥”) कर्णः । इत्यमरः ॥ (यथा, भागवते । ९ । ४ । १८ । “करौ हरेर्मन्दिरमार्ज्जनादिषु श्रुतिं चकाराच्यु तसत्कथोदये ॥”) गर्भस्थस्य पञ्चमासैः श्रुतिर्भवति । इति सुख- बोधः ॥ श्रुतोन्द्रियग्राह्यः शब्दः शब्दत्वादिः । यथा, -- अन्यच्च । “तीव्राकुमुद्वतीमन्दाछन्दोवत्यस्तु षड्जगाः । दयावती रञ्जनी च रतिका ऋषभे स्थिताः ॥ रीद्री क्रोधा च गान्धारे वज्जिकाथ प्रसा- रिणी । प्रोतिश्च मार्ज्जनीत्येताः श्रुतयो मध्यमाश्रिताः ॥ क्षिती रक्ता च सन्दीपन्यालापिन्यपि पञ्चमे । मदन्ती रोहिणी रम्येत्येता धैवतसंश्रयाः । उग्रा च क्षोभिणीति द्वे निषादे वसतः श्रुती ॥” इति सङ्गीतरत्नाकरः ॥
Apte
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
श्रुतिः [śrutiḥ], f. [श्रु-क्तिन्]
Hearing; चन्द्रस्य ग्रहणमिति श्रुतेः Mu.1.7; R.1.27.
The ear; श्रुतिसुखभ्रमरस्वनगीतयः R.9.35; Śi.1.1; Ve.3.23.
Report, rumour, news, oral intelligence.
A sound in general; सा तु वेदश्रुतिं श्रुत्वा दृष्ट्वा वै तमसो निधिम् Rām.7.2.17; स वेत्ति गन्धांश्च रसान् श्रुतीश्च Mb.12.187.19.
The Veda (known by revelation, opp. स्मृति; see under वेद); श्रुतिस्तु वेदो विज्ञेयो धर्मशास्रं तु वै स्मृतिः Ms.2.1,14.
A Vedic or sacred text; इति श्रुतेः or इति श्रुतिः 'so says a sacred text'.
Vedic or sacred knowledge, holy learning; यत्रैषा सात्वती श्रुतिः Bhāg.1.4.7;11.3.46.
(In music) A division of the octavo, a quarter tone or interval; रणद्भिरा- घट्टनया नभस्वतः पृथग्विभिन्नश्रुतिमण्डलैः स्वरैः Śi.1.1;11.1; (see Malli. ad loc.).
The constellation Śravaṇa.
The diagonal of a tetragon, the hypotenuse of a triangle; cf. कर्ण.
Direct or expressed signification (opp. लक्षणा); श्रुतिलक्षणाविशये च श्रुतिर्न्याय्या न लक्षणा ŚB. on MS.6.2.2.
Speech (वाक्); विविक्तवर्णाभरणा सुखश्रुतिः Ki.14.3.
Name, fame (कीर्ति); हैरण्यौ भवतो बाहू श्रुतिर्भवति पार्थिवी Mb.3.35.9.
A word, saw, saying; Rām.2.72.25.
An explanation of ब्रह्म from the उपनिषद्s; विविधाश्चौपनिषदीरात्मसंसिद्धये श्रुतीः Ms.6.29 (com. श्रुतीरुपनिषत्पठितब्रह्मप्रतिपादकवाक्यानि).
Advantage, gain (फलश्रुति); उपोष्य संशितो भूत्वा हित्वा वेदकृताः श्रुतीः Mb.12. 265.7.
Name, title; बिभ्रत्यनन्यविषयां लोकपाल इति श्रुतिम् Kāv.2.331.
Learning.
Scholarship. -Comp. -अनुप्रासः a kind of alliteration; see K. P.9. -अर्थः the sense of a sentence derived on the strength of the श्रुतिप्रमाण as distinguished from लङ्ग, वाक्य and other प्रमाणs; यत्र श्रुत्यर्थो न सम्भवति तत्र वाक्यार्थो गृह्यते ŚB. on MS.6.2.14.-उक्त, -उदित a. enjoined by the Vedas; आचारः परमो धर्मः श्रुत्युक्तः स्मार्त एव च Ms.1.18.
कटः a snake.
penance, expiation. -कटु a. harsh to hear. (-टुः) a harsh or unmelodious sound, regarded as a fault of composition. -कथित a. enjoined or prescribed by the Vedas. -चोदनम्, -नः a scriptural injunction, Vedic precept. -जातिविशारद a. familiar with different kinds of quarter tones; वीणावादनतत्त्वज्ञः श्रुतिजातिविशारदः । तालज्ञश्चाप्रयासेन मोक्षमार्गं नियच्छति ॥ Y.3.115. -जीविका a law-book or code of laws. -दूषक a. offending the ear.-द्वैधम् disagreement or contradiction of Vedas or Vedic precepts; श्रुतिद्वैधं तु यत्र स्यात्तत्र धर्माबुभौ स्मृतौ Ms.2.14.-धर a.
hearing.
having a retentive memory; L. D. B. -निदर्शनम् evidence of the Vedas; कामकार- कृते$प्याहुरेके श्रुतिनिदर्शनात् Ms.11.45.
पथः the range of the ear; तामाश्रित्य श्रुतिपथगतामास्थया लब्धमूलः M.4.1.
(pl.) tradition. -प्रसादन a. grateful to the ear.-प्रामाण्यम् authority or sanction of the Vedas.-प्रामाण्यतः ind. on the authority of the Veda; श्रुति- प्रामाण्यतो विद्वान् स्वधर्मे निविशेत वै Ms.2.8.
मण्डलम् the outer ear.
the whole circle of the quarter-tones; Śi.1.1. -महत् a. rich in scriptural lore; सरस्वती श्रुतिमहतां महीयताम् Ś.7.35 (v. l. श्रुतमहताम्).
मूलम् the root of the ear; लपितुं किमपि श्रुतिमूले Gīt.1.
a Vedic text. -मूलक a. founded on the Veda. -वचनम् a Vedic precept. -वर्जित a.
deaf.
not knowing the Vedas. -विप्रतिपन्न a.
not recognizing the authority of the scriptures, disregarding the Vedas.
contrary to the Vedas. -विवरम् the auditory passage. -विशेष- णार्थम् ind. for specialization in the Vedas; Svapna.1.
विषयः the object of the sense of hearing i. e. sound; श्रुतिविषयगुणा या स्थिता व्याप्य विश्वम् Ś.1.1.
the reach or range of the ear; एतत् प्रायेण श्रुतिविषयमापतितमेव K.
the subject matter of the Veda.
any sacred ordinance. -वेधः boring the ear.
शिखरम्, शिरस् Upaniṣad or Vedānta; नमः सर्वेष्टाय श्रुतिशिखरदृष्टाय च नमः Viṣṇu-mahimna 3.
a leading text of the Veda.-सुख, -मनोहर a. agreeable to the ear, melodious; श्रुतिसुखमुपवीणितं सहायैः Ki.1.38. -स्फोटा Gynandropsis Pentaphylla (Mar. तिळवण). -स्मृति f. (dual) revelation and legal institutes, Veda and law; श्रुतिस्मृति- पुराणोक्तफलप्राप्त्यर्थम् Pūjā-mantra. -हारिन् a. captivating the ear.
