सामग्री पर जाएँ

श्रुतिवेध

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

श्रुतिवेधः, पुं, (श्रुतेः कर्णस्य वेधो यत्र ।) कर्ण- वेधः । तस्य विहितकालो यथा दीपिकायाम् । “नो जन्मेन्दुममाससूर्य्यरविजक्ष्माजाहसुप्ताच्युते शस्तेऽर्के लघुयुग्मविष्णुमृदुभे स्वात्युत्तरादित्यभे सौम्यैस्त्र्यायत्रिकोणकण्टकगतैः पापैस्त्रिलाभा- रिगै- रोजोऽब्दे श्रुतिवेध इत्यसितभे लग्ने तु काले शुभे ॥” इति ज्योतिस्तत्त्वम् ॥ अन्यच्च । तत्र तिथयः रिक्ताभिन्नाः प्रशस्ताः । वाराः बृहस्पतिबुधशुक्राणां प्रशस्ताः । नक्ष- त्राणि अश्विनी रेवती हस्ता चित्रा पुनर्व्वसु- धनिष्ठा मृगशिरः पुष्यः श्रवणानुराधा उत्तर- फल्गुनी उत्तराषाढा उत्तरभाद्रपत्स्वाती । लग्नानि वृषतुलाधनुर्मीनसंज्ञकानि । अयुग्म- वर्षे । जन्ममासचैत्रपौषाग्रहायणभिन्नमासाः प्रशस्ताः । शुक्लपक्षे चन्द्रतारादिशुद्धौ हरि- शयनभिन्नकाले कालशुद्धौ श्रुतिवेधः कार्य्यः । इति ज्योतिषम् ॥

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

श्रुतिवेध¦ पु॰ श्रुतेः कर्णस्य वेधी यत्र। कर्णवेधाख्ये सस्का-रभेदे कर्णवेधशब्दे

१७

१० पृ॰ दृश्यम्।

शब्दसागरः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

श्रुतिवेध¦ m. (-धः) The boring of the ear.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

श्रुतिवेध/ श्रुति--वेध m. the piercing or boring of the ear L.

"https://sa.wiktionary.org/w/index.php?title=श्रुतिवेध&oldid=355099" इत्यस्माद् प्रतिप्राप्तम्