श्रेढी
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
श्रेढी, स्त्री, अङ्कविशेषः । भिन्नं भिन्नं यत्किञ्चिद्- द्रव्यादिकमेकीक्रियते तद्गणनायाः श्रेढ्या मिश्र प्रायत्वात्तद्गणनानन्तरमारब्धः श्रेढीव्यवहारः । इति मुनीश्वरगणककृतलीलावतीटीका ॥ अ- स्याद्यसूत्रं यथा । अथ श्रेढीव्यवहारे करण- सूत्रम् । “सैकपदघ्नपदार्द्ध मथैका द्यङ्कयुतिः किल संकलिताख्या । सा द्वियुतेन पदेन विनिघ्नी स्यात् त्रिहृता किल संकलितैक्यम् ॥” उदाहरणम् । “एकादीनां नवान्तानां पृथक् संकलितानि मे तेषां संकलितैक्यञ्च प्रचक्ष्व गणक द्रुतम् ॥” न्यासः । १ । २ । ३ । ४ । ५ । ६ । ७ । ८ । ९ । लब्धान्ये तेषां संकलितानि । १ । ३ । ६ । १० । १५ । २१ । २८ । ३६ । ४५ । अथ तेषां संक- लितैक्यानि । १ । ४ । १० । २० । ३५ । ५६ । ८४ । १२० । १६५ । तस्य शेषसूत्रं यथा । करणसूत्रं सार्द्धमार्य्या । “पादाक्षरमिते गच्छे गुणवर्गफलञ्चये द्विगुणे । समवृत्तानां संख्या तद्वर्गो वर्गवर्गश्च । स्वस्व- पदोनौ स्यातां अर्द्धसमानाञ्च विषमाणाम् ॥” उदाहरणम् । “समानामर्द्धतुल्यानां विषमाणां पृथक् पृथक् । वृत्तानां वद मे संख्यामनुष्टु प्छन्दसां द्रुतम् ॥” न्यासः उत्तरो द्वि २ गुणः गच्छः ८ लब्धा सम- वृत्तानां संख्या २५६ । तथार्द्ध समानञ्च ६५२८० विषमाणाञ्च ४२९४९०१७६० । इति लीलावती ॥
शब्दसागरः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
श्रेढी¦ f. (-ढी) A progression, (in math.)
Apte
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
श्रेढी [śrēḍhī], A progression (in math.). -Comp. -फलम् the sum of progression.