श्रेष्ठः
श्रेष्ठः
संस्कृतभाषा
[सम्पाद्यताम्]- समीचीनतर, श्रेयान्, श्रेयस्, उत्तमतर, सुन्दरतर, उत्कर्षिन्, भद्रतरः, प्रशस्ततर, गरीयस्।
अर्थः
[सम्पाद्यताम्]- श्रेष्ठः नाम उत्तमः, साधियस्।
- उदाहरनम् - बालिका श्रेष्ठं गायति।
आङ्ग्लभाषा
[सम्पाद्यताम्]- श्रेष्ठः - better.
- भद्रतरः - Compare of Well.
अनुवादाः
[सम्पाद्यताम्]- कन्नड - ಉನ್ನತ.
- तेलुगु - శ్రేష్టమైనది.
- हिन्दी - श्रेष्ठता, उन्नति, सुधार.
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
श्रेष्ठः, पुं, (प्रशस्य + इष्ठन् ।) कुबेरः । नृपः । द्विजः । इति शब्दरत्नावली ॥ विष्णुः । इति तस्य सहस्रनामस्तोत्रम् ॥ (महादेवः । यथा, महाभारते तस्य सहस्रनामस्तोत्रे । १३ । १७ । ४० । “विश्वरूपः स्वयं श्रेष्ठो वलवीरो बलो गणः ॥”)
श्रेष्ठः, त्रि, (प्रशस्य + इष्ठन् ।) प्रशस्तः । वरः । (यथा, रामायणे । २ । १ । २० । “इष्वस्त्रे च पितुः श्रेष्ठो बभूव भरताग्रजः ॥”) तत्पर्य्यायः । श्रेयान् २ पुष्कलः ३ सत्तमः ४ अतिशोभनः ५ । इत्यमरः ॥ मुख्यः ६ वरेण्यः ७ प्रमुखः ८ अग्रः ९ अग्रहरः १० उत्तमः ११ प्रग्रहः १२ अनुत्तमः १३ अग्रीयः १४ प्रवेकः १५ अग्र्यः १६ अग्रियः १७ । इति शब्दरत्नावली ॥ अनवरः १८ अग्रिमः १९ प्राग्रः २० प्राग्रहरः २१ प्रवर्हः २२ । इति जटाधरः ॥ वृद्धः । ज्येष्ठः । इति शब्दरत्नावली ॥
