श्रेष्ठी
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
श्रेष्ठी, [न्] पुं, (श्रेष्ठं धनादिकमस्त्यस्येति । इनिः ।) कुलोत्तमशिल्पी । यथा, -- “कुलीकस्तु कुलीश्रेष्ठी कुलश्रेष्ठिनि शिल्पि- नाम् ॥” इति जटाधरः ॥ (यथा, बृहत्संहितायाम् । २९ । १० । “श्रेष्ठी सुवर्णपुष्पैः पद्मैर्विप्राः पुरोहिताः कुमुदैः ॥”)
