सामग्री पर जाएँ

श्रोत्रियः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

श्रोत्रियः, पुं, (छन्दोऽधीते इति । छन्दस् + श्रोत्रियं- श्छन्दोऽधीते ।” ५ । २ । ८४ । इति घन्प्रत्ययेन साधुः ।) वेदाध्येतृव्राह्मणः । तत्पर्य्यायः । छान्दसः २ । इत्यमरः ॥ श्रूयते धर्म्माधर्म्मावनेन इति श्रोत्रो वेदः त्रासुसिति त्रः श्रोत्रं वेत्ति अधीते वा श्रोत्रियः धघे कादिति इयः । छन्दो- ऽधीते इत्यर्थे इये छन्दःशब्दस्य श्रोत्रादेशः । इति परे । छन्दो वेत्ति अधीते वा छान्दसः । इति पूर्वेण ष्णः । इति भरतः ॥ * ॥ तस्य लक्षणं यथा, -- “जन्मना ब्राह्मणो ज्ञेयः संस्कारैर्द्विज उच्यते विद्याभ्यासी भवेद्विप्रः श्रोत्रियस्त्रिभिरेव हि ॥” इति पाद्मे उत्तरखण्डे ११६ अध्यायः ॥ मानवे मार्कण्डेयपुराणे चाप्येवम् ॥ * ॥ अपिच । “एकां शाखां सकल्पां वा षड्भिरङ्गैरधीत्य च षट्कर्म्मनिरतो विप्रः श्रोत्रियो नाम धर्म्मवित् ॥ इति दानकमलाकरः ॥

"https://sa.wiktionary.org/w/index.php?title=श्रोत्रियः&oldid=172672" इत्यस्माद् प्रतिप्राप्तम्