सामग्री पर जाएँ

श्लिष

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

श्लिष, उ दाहे । इति कविकल्पद्रुमः ॥ (भ्वा०-पर० सक०-सेट् । क्त्वावेट् ।) अन्तःस्थतृतीययुक्तः । उ, श्लेषित्वा श्लिष्ट्वा । इति दुर्गादासः ॥

श्लिष, औ य ऌ ञि श्लषे । इति कविकल्पद्रुमः ॥ (दिवा०-पर०-सक०-अनिट् ।) अन्तःस्थतृतीय- युक्तादिः । औ श्लेष्टा । य, श्लिष्यति । ऌ, अश्लिषत् । आलिङ्गने तु अश्लिक्षत् । ञि श्लिष्टो- ऽस्ति । श्लेष आलिङ्गनम् । तच्च बाहुभ्यामेव रूढम् । श्लिष्यति कामपीति जयदेवः । प्राप्ता- वप्ययम् । श्लिष्यति वृक्षं लता । इति दुर्गा- दासः ॥

श्लिष, क श्लेषे । इति कविकल्पद्रुमः ॥ (चुरा०-पर० सक०-सेट् ।) अन्तःस्थतृतीययुक्तः । क, श्लेष- यति । इति दुर्गादासः ॥

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

श्लिष¦ दाहे भ्वा॰ पर॰ सक॰ सेट् उदित् क्त्वा वेट्। श्लेषति अ श्लेषीत्।

श्लिष¦ आलिङ्गने संसर्गे च सक॰ दि॰ अनिट्। श्लिष्यतिऌदित् अश्लिषत्। आलिङ्गने तु अश्लिक्षत्।

श्लिष¦ श्लेषणै चु॰ उभ॰ सक॰ सेट्। श्लेषयति ते अशिश्लेषत् त।

"https://sa.wiktionary.org/w/index.php?title=श्लिष&oldid=356892" इत्यस्माद् प्रतिप्राप्तम्