श्वपच
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
श्वपचः, पुं, (श्वानं पचतीति । पच + अच् ।) चण्डालः । इत्यमरः ॥ तस्य संज्ञा अन्त्याव- सायी । तस्य धर्म्मो यथा, -- “चण्डालश्वपचानान्तु बहिर्ग्रामात् प्रतिश्रयः । अपपात्राश्च कर्त्तव्या धनं येषां श्वगर्द्दभम् ॥ वासांसि मृतचेलानि भिन्नभाण्डेषु भोजनम् । कार्ष्णायः समलङ्कारः परिव्रज्या च नित्यशः ॥ न तैः समयमन्विच्छेत् पुरुषो धर्म्ममाचरन् । व्यवहारो मिथस्तेषां विवाहः सदृशैः सह ॥ अन्नं येषां पराधीनं देयं स्याद्भिन्नभाजने । रात्रौ न विचरेयुस्ते ग्रामेषु नगरेषु च ॥ दिवा चरेयुः कार्य्यार्थं चिह्निता राजशासनैः । अबान्धवं शवञ्चैव निर्हरेयुरिति स्थितिः ॥ बध्यांश्च हन्युः सततं यथाशास्त्रं नृपाज्ञया । वध्यवासांसि गृह्णीयुः शय्याश्चाभरणानि च ॥ * । चाण्डालः श्वपचः क्षत्ता मृतो वैदेहकस्तथा । मागधायोगवौ चैव सप्तैतेऽन्त्यावसयिनः ॥” तस्यान्नभक्षणे प्रायश्चित्तं यथा, -- “अन्त्यावसायिनामन्नमश्नीयाद्यस्तु कामतः । स तु चान्द्रायणं कुर्य्यात् तप्तकृच्छमथापि वा ॥” इति प्रायश्चित्ततत्त्वधृताङ्गिरोवचनम् ॥
अमरकोशः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
श्वपच पुं।
चण्डालः
समानार्थक:चण्डाल,प्लव,मातङ्ग,दिवाकीर्ति,जनङ्गम,निषाद,श्वपच,अन्तेवासिन्,चाण्डाल,पुक्कस
2।10।20।1।2
निषादश्वपचावन्तेवासिचाण्डालपुक्कसाः। भेदाः किरातशबरपुलिन्दा म्लेच्छजातयः॥
पत्नी : चाण्डालिका
पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः
वाचस्पत्यम्
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
श्वपच¦ पुंस्त्री॰ श्वानं पचति भोजनाय पच--अच्। श्वपाके जातिभेदे। स च अन्त्यावसायिसज्ञः
“चण्डालःश्रपचः क्षत्ता सूती वैदेहकस्तथा। मागधायोगवौ चैवसप्तौतेऽन्त्यावसायिनः। अन्त्यावसायिनामन्नमश्नीयाद् यस्तुकामतः। स तु चान्द्रायणं कुर्य्यात् तप्रघृच्छमथापि वा” प्रा॰ त॰ अङ्गिराः।
शब्दसागरः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
श्वपच¦ mf. (-चः-चा)
1. A man or woman of a low and degraded caste.
2. A dog-feeder or keeper. E. श्वन् a dog, पच् to cook, (for his food,) or to cherish as his property, and अच् aff.; also with क्विप् aff. श्वपच् m. (-पक्) and with घञ् aff. श्वपाक |
Monier-Williams
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
श्वपच/ श्व--पच mf( आor ई). " one who cooks -ddog " , a man or woman of a low and outcaste tribe (the son of a चण्डालand a ब्राह्मणी, or of a निष्ट्यand a previously unmarried किराती, or of an उग्रwoman by a क्षत्रिय, or of a -Kshhounds woman by an उग्र, or of a ब्राह्मणीby an अम्बष्ठ, often = चण्डाल; he acts as a public executioner and carries out the bodies of those who die without kindred) S3a1n3khGr2. Mn. MBh. etc.
श्वपच/ श्व--पच m. a dog-feeder , dog-keeper W.