श्वपाकः
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
श्वपाकः, पुं, (शुनां पाकः कार्य्यवेन यस्य ।) चण्डालः । इत्यमरः ॥ तस्योत्पत्तिर्यथा, -- “क्षत्तुर्जातस्तथोग्रायां श्वपाक इति कीर्त्त्यते ॥” इति मानवे १० अध्यायः ॥ * ॥ रजस्वलायास्तस्य स्पर्शने प्रायश्चित्तं यथा, -- “चाण्डालेन श्वपाकेन संस्पृष्टा चेत् रजस्वला । अतिक्रम्य तान्यहानि प्रायश्चित्तं समाचरेत् ॥ त्रिरात्रमुपवासः स्यात् पञ्चगव्येन शुध्यति । तां निशान्तु व्यतिक्रम्य स्वजात्युक्तन्त कारयेत् ॥” इति वचनान्तरदर्शनात् एतत् कामतः । अत्रा- ज्ञाने बूहस्पतिः । “पतितान्त्यश्वपाकैस्तु संस्पृष्टा स्त्री रजस्वला । तान्यहानि व्यतिक्रम्य प्रायश्चित्तं समाचरेत् ॥ प्रथमेऽह्नि त्रिरात्रन्तु द्वितीये द्व्यहमाचरेत् । अहारात्रं तृतोयेऽह्नि चतुर्थे नक्तमाचरेत् ॥” चतुर्थेऽह्नीति शुद्धिस्नानात् पूर्व्वम् । इतिप्राय- श्चित्ततत्त्वम् ॥
