श्ववृत्तिः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
श्ववृत्तिः, स्त्री, (शुनः कुक्कुरस्येव पराधोना वृत्तिः । सवा । इत्यमरः ॥ चाक्री इति भाषा । शुन इव वृत्तिः परपिण्डोपजीवनात् । इति भरतः ॥ अपि च । “सत्यानृतन्तु वाणिज्यं तेन चैवापि जीव्यते । सेवा श्ववृत्तिराख्याता तस्मात्ता परिवर्जयेत् ॥” इति मानवे ४ अध्याये ६ श्लोकः ॥ “सेवा तु दीनदृष्टिसन्दर्शनस्वामितर्ज्जननीच- क्रियादिधर्म्मयोगात् शुन इव वृत्तिरतः श्ववृत्ति- रुक्ता तस्मात्तां प्रकृतो ब्राह्मणस्त्यजेत् ।” इति कुल्लूकभट्टः ॥
