सामग्री पर जाएँ

श्वश्रूः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

श्वश्रूः, स्त्री, (श्वशुरस्य स्त्री । श्वशुर + “श्वशुर- स्योकारलोपश्च ।” ४ । १ । ६८ । इत्यस्य वार्त्ति- कोक्त्या ऊङ् उकारलोपश्चं ।) पतिपत्न्योः प्रसूः । इत्यमरः ॥ शाशुडी इति भाषा ॥ * ॥ तस्याः स्नुषाभिः सहाविश्वासकारणं यथा, -- धर्म्मव्याध उवाच । “मया ते दुहिता दत्ता पुत्त्रार्थे वरवर्णिनी । सा च त्वद्भार्य्यया प्रोक्ता दुहिता जन्तुघातिनः ॥ अतोऽर्थमागतोऽहं ते गृहं प्रति समीक्षितुम् । आचारं देवपूजाञ्च अतिथीनाञ्च तर्पणम् ॥ एतेषागेकमप्यत्र कुर्व्वन्नपि न दृश्यते । तद्गृहं गन्तुमिच्छामि पितॄणां श्राद्धकाम्यया ॥ स्वगृहे नैव भुञ्जामि पितॄणां कार्य्यमित्युत । अहं व्याधो जीवघाती न तु तल्लोकहिंसकः ॥ मत्सुता जीवघातस्य यदूढा त्वत्सुतेन च । त्वन्महत्वञ्च संप्राप्तं प्रायश्चित्तं तपोधन ॥ एवमुक्त्वा स चोत्थाय शप्त्वा नारीं तदा धरे । मा स्नुषाभिः समं श्वश्र्वा विश्वासो भवतु क्वचित् मा च स्नुषा कदाचित् स्यात् या श्वश्रूं जीवतीमिषेत् । एवमुक्त्वा गतो व्याधः स्वगृहं प्रति भामिनि ॥” इति वाराहे आदिकृतवृत्तान्तनामाध्यायः ॥

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

श्वश्रूः [śvaśrūḥ], f. A mother-in-law, a wife's or husband's mother; श्वश्रूजनानुष्ठितचारुवेशाम् R.14.13. -Comp. -श्वशुरौm. du. the mother and father-in-law.

"https://sa.wiktionary.org/w/index.php?title=श्वश्रूः&oldid=358222" इत्यस्माद् प्रतिप्राप्तम्