श्वस
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
श्वस, घ लु प्राणने । इति कविकल्पद्रुमः ॥ (अदा० पर०-अक०-सेट् ।) “वकारयुक्तादिः । घ लु, श्वसिति लोकः जीवतीत्यर्थः । आश्वसेयुर्निशा- चरान् । इति भट्टौ । न विश्वसेत् पूर्व्वविरो- धितस्येति । पञ्चतन्त्रे । ‘तविखसेदविश्वस्तं विश्वस्ते नातिविश्वसेत् ।’ इत्यादौ च गणकृतमनित्यमिति न्यायात् शपः स्थितौ साध्यम् । अथवा हादेराकृतिगणत्वात् तत्र दष्टव्यम् । वस्तुतस्तु “पचादित्वादनि श्वस इवाचरतीति क्वौ साध्यम् ।” इति दुर्गादासः ॥
श्वस, लुर स्वप्ने । इति कविकल्पद्रुमः ॥ (अदा०- पर०-अक०-सेट् ।) लु, श्वस्ति । र, वैदिकः । इति दुर्गादासः ॥
वाचस्पत्यम्
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
श्वस¦ जीवने अदा॰ जक्षा॰ धर॰ सक॰ सेट्। श्वधिति अश्व-[Page5159-a+ 38] सीत्।
“न विश्वसेदविश्वस्ते इत्यादौ” तु गणव्यत्यासात्भ्वादित्वम् निष्ठा वेट्। श्वसितः श्वस्तः।
श्वस¦ स्वप्रे अदा॰ प॰ अक॰ वैदिकोऽयस्। श्वस्ति अश्वसीत्।
