सामग्री पर जाएँ

श्वस्तनम्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

श्वस्तनम्, त्रि, (श्वो भवम् । श्वस् + “एषमोह्यः श्वसोऽन्यतरस्याम् ।” ४ । २ । १०५ । इति त्यब्- भावे ट्युट्युलौ तुट् च ।) भविष्यद्वस्तु । इति शब्दमाला ॥ (यथा, भागवते । ११ । ८ । १२ । “सायन्तनं श्वस्तनं वा न संगृह्णीत भिक्षुकः । मक्षिका इव संगृह्णन् सह तेन विनश्यति ॥”) भविष्यत्काले, क्ली । इति राजनिर्घण्टः ॥

"https://sa.wiktionary.org/w/index.php?title=श्वस्तनम्&oldid=172793" इत्यस्माद् प्रतिप्राप्तम्