श्वासः
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
श्वासः, पुं, (श्वसित्यनेनेति । श्वस + करणे घञ् । यद्वा, श्वसितीति । श्वस + “श्याद्व्यधेति ।” ३ । १ । १४१ । इति णः ।) श्वसितम् । वायुः । इति हेमचन्द्रः ॥ तत्पर्य्यायः । प्राणः २ । इति राजनिर्घण्टः ॥ (यथा, साहित्यदर्पणे । १ । १४७ । “श्वासान् मुञ्चति भूतले विलुठति त्वन्मार्ग- मालोकते दीर्घं रोदिति विक्षिपत्यत इतः क्षामां भुजा- वल्लरीम् ॥”) रोगविशेषः । स तु बलवान् महापातकजः । यथा, -- “उन्मादश्चत्वचां दोषो राजयक्ष्माश्मरी तथा । श्वासश्च मधुमेहौ द्वावुदरी पापसंज्ञकाः ॥ इति नारदोक्तम् ॥” इति शुद्धितत्त्वम् । स च हीनबल उपपातकजः यथा, -- जलोदस्यकतमीहशूलरोगव्रणानि च । इच्छाहारेण सन्तर्प्य द्विजञ्चापि प्रजापतिम् ॥ होमेनानेन दानेन मुक्तो भवति कर्म्मतः । मादरं माधवं नत्वा सन्तर्प्य द्विजपुङ्गवान् ॥ स्नात्वा कलसतोयेन मुक्तो भवति मानुषः ॥” इति भृगुभरतोक्तश्वासकासकर्म्मविपाकः ॥ अपि च । “पिशुनो नरकस्यान्ते जायते श्वासकासवान् । घृतं तेन प्रदातव्यं सहस्रपलसम्मितम् ॥” इति शातातपीयकर्म्मविपाकः ॥
Apte
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
श्वासः [śvāsḥ], [श्वस्-घञ्]
Breathing, breath, respiration, heaving; अद्यापि स्तनवेपथुं जनयति श्वासः प्रमाणाधिकः Ś.1.3; Ku.2.42.
A sigh, panting; नैव बाष्पविमोक्षेण न वा श्वासकृते न च Mb.12.153.77.
Air, wind.
Asthma.
Aspiration (in the pronunciation of consonants).
Inspiration. -Comp. -उच्छ्वासः exhalation and inhalation, respiration. -कासः asthma. -कुठारः a drug used to cure asthma. -धारणम् = प्राणायाम. -रोधः suspension or obstruction of breath. -हिक्का a kind of hiccough.-हेतिः f. sleep.
