सामग्री पर जाएँ

श्वित्रम्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

श्वित्रम्, क्ली, (श्वेतते इति । श्वित शौक्ल्ये + “स्फायितञ्चिवञ्चीति ।” उणा० २ । १३ । इति रक् ।) श्वेतकुष्ठम् । तत्पर्य्यायः । कुष्ठम् २ । वत्यमरः ॥ श्वेतम् ३ श्वेत्रम् । इति तट्टीका ॥ (यथा, भागवते । ७ । १ । १८ । “शपतोरसकृद्विष्णुं यद्ब्रह्म परमव्ययम् । श्विनं न जातं जिहायां नान्धं विविशतुस्तमः ॥”) “काथः सवाकुचीचूर्णं धात्रीखदिरसारयोः । शङ्खेन्दुकुन्दधवलं श्वित्रं संसेवितो हन्ति ॥ ४ ॥ मथितेन पिबेच्चूर्णं काकोदुम्बरवल्गुर्जम् । तैलाक्तं घर्म्मसेवी स्यात्तक्राशी श्वित्रहृद्भवेत् ॥” मथितं निर्जलं विलोडितं दधि । तक्रं चतुर्थांश जलयुक्तं वस्त्रपुतं दधि ॥ ५ ॥ “खदिरस्य पलान्यष्टौ सोमराज्याः पलद्वयम् । त्रिफला पिचुमर्द्दश्च दारुदार्व्यथ पर्पटः ॥ पृथक् फलान् समुद्धृत्य सिंहिकायाः पलद्वयम् जलाढकद्वये साध्यं यावत् पादावशेषितम् ॥ क्वाथ्यमानञ्च मृद्वग्नौ घृतप्रस्थं विपाचयेत् । चतुःपलं सोमराज्याः खदिरस्य पलं तथा ॥ पटोलमूलत्रिफलात्रायमाणा दुरालभा । कषार्द्धं कटुकञ्चापि कार्षिकान् सूक्ष्मपेवितान् ॥ पलद्वयं कौषिकस्य शुद्धस्यात्र प्रदापयेत । सिद्धं सर्पिरिदं श्वित्रं हन्यादम्भ इवानलम् ॥ अष्टादशानां कुष्ठानां परमं वै तथौषधम् । सोमराजीघृतं नाम निर्म्मितं ब्रह्मणा पुरा ॥ लोकानामुपकाराय श्वित्रकुष्ठादिरोगिणाम् ॥” इति सोमराजीघृतम् ॥ ६ ॥ “महौषधं महामेदां निम्बपत्राणि सर्षपाः । मनःशिला च सिन्दूरं पद्मवारिण्यवल्गुजम् ॥ हरिद्रे हरितालञ्च त्रिफला पीतगन्धकान् । एतानि समभागानि विषार्द्धांशानि योजयेत् ॥ सर्पिषश्च पलान्य ष्टौ देवदारुरसं शुभम् । हिगुणं त्रिगुणं क्षीरं गोमूत्रञ्च चतुर्गुणम् ॥ ताम्रपात्रे तु संस्थाप्य शनैर्म्मृद्वग्निना पचेत् । चतुर्भागावशेषन्तु सकल्कमवतारयेत् ॥ अग्नौ क्षिप्तन्तु निःशब्दं जलमुक्तं विचक्षणः । अभ्यङ्गपानयोगात्तदाशु सर्व्वान् गदान् जयेत् अष्टादशानां कुष्ठानां दद्रूणां श्वित्रिणां तथा दुष्टनाडीषु मर्त्यानां स्राविणां कीटिनां तथा । असृक्सावपरीता ये ये च त्यक्तभिषक्क्रियाः सर्व्वग्रहवियुक्तानां शीर्णाङ्गानां विशेषवः ॥ सर्व्वधातुगते कुष्ठे पतितभ्रूशिरोरुहम् । घर्घराव्यक्तघोषाणां तथा सर्व्वाङ्गवातिनाम् ॥ पानेऽभ्यङ्गे तथा नस्ये वस्तिकर्म्मणि नित्यशः । सप्तरात्रप्रयागेण सर्व्वकुष्ठानि नाशयेत् ॥ द्विसप्ताहप्रयोगेण पूर्णचन्द्रनिभाननः । जातकेशनखश्मश्रुर्भाति षोडशवर्षवत् ॥ अनङ्गसहितं साक्षात् सर्व्वामयविनाशनः । एतद्घृतं महाश्रेष्ठं भार्गवेणावतारितम् ॥ मनुष्याणां हितार्थाय सर्व्वव्याधिहरं परम् । महामार्त्तण्डकमिदं घृतं सर्व्वामरार्च्चितम् ॥ ७ ॥ इति भावप्रकाशः ॥ अपि च । “धात्रीखदिरयोः क्वाथं पीत्वा च जम्बुसंयुतम् । शङ्केन्दुधवलश्वित्रं हन्ति तूर्णं न संशयः ॥” इति गारुडे १७५ अध्यायः ॥

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

श्वित्रम् [śvitram], [श्वित्-रक् Uṇ.2.13]

White leprosy.

A leprous spot (on the skin); तदल्पमपि नोपेक्ष्यं काव्ये दुष्टं कथंचन । स्याद्वपुः सुन्दरमपि श्वित्रेणैकेन दुर्भगम् Kāv.1.7.

"https://sa.wiktionary.org/w/index.php?title=श्वित्रम्&oldid=358906" इत्यस्माद् प्रतिप्राप्तम्