श्वेतकण्टकारी
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
श्वेतकण्टकारी, स्त्री, (श्वेता कण्टकारी ।) शुक्ल- कण्टकारिका । श्वेत रेङ्गनी इति हिन्दी- भाषा । तत्पर्य्यायः । सितकण्टकारिका २ । श्वेता ३ क्षेत्रदूती ४ लक्ष्मणा ५ सितसिंही ६ सितक्षुदा ७ क्षुद्रवार्त्ताकिनी ८ सिता ९ सिक्ता १० कटुवार्त्ताकिनी ११ क्षेत्रजा १२ कपटे श्वरी १३ निःस्नेहफला १४ वामा १५ सित- कण्ठा १६ महीषधी १७ गर्द्दभी १८ चन्द्रिका १९ चान्द्री २० चन्द्रपुष्पा २१ प्रियङ्करी २२ नाकुली २३ दुर्लभा २४ रास्ना २५ । अरया गणाः । रुच्यत्वम् । कटुत्वम् । डष्णत्वम् । कफवातनाशित्वम् । चक्षुष्यत्वम् । दीपनत्वम् । रसनियामकत्वञ्च । इति राजनिर्घण्टः ॥ * ॥ अन्यच्च । “श्वेता क्षुद्रा चन्द्रहासा लक्ष्मणा क्षेत्रदूतिका । गर्द्देभा चन्द्रभा चान्द्री चन्द्रपुष्पा प्रियङ्करी ॥ कण्टकारी सरा तिक्ता कटुका दीपनी लघुः । रूक्षोणा पाचनी कासश्वासज्वरकफानिलान् । निहन्ति पीनसं पार्श्वपीडाकृमिहृदामयान् । तयोः पलं कटुरसं पाके च कटुकं भवेत् ॥ शुक्रस्य रेचनं भेदि तिक्ता पिताग्निकृल्लघः । हन्यात् कफमरुत्कण्डूकासमेदःकृमिज्वरान् ॥ तद्वत् प्रोक्ता सिता क्षुद्रा विशेषाद्गर्भकारिणी ॥” इति भावप्रकाशः ॥
वाचस्पत्यम्
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
श्वेतकण्टकारी¦ स्त्री कर्म॰। शुभ्रवर्णकण्टकारिकायाम् राजनि॰।
Monier-Williams
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
श्वेतकण्टकारी/ श्वेत--कण्टकारी f. a species of plant (= प्रियंकरी) MW.